प्रत्यभिवाद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यभिवादः, पुं, (प्रति + अभि + वद् + णिच् + भावे घञ् ।) अभिवाद्यस्य गुरोराशीर्व्वच- नम् । इति गोयीचन्द्रः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यभिवाद¦ पु॰ प्रति + अभि + वद--णिच्--घञ्। अभिवादकस्यतत्प्रतिरूपे आशीर्वचनादौ। भावे ल्युट्। प्रत्यभिवादनतत्रार्थे न॰। तत्प्रकारः मनुना कुल्लूकभट्टेन च दर्शितोयथा
“आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने। अकारश्चास्य नाम्योऽन्ते वाच्यः पूर्वाक्षरः प्लुतः। यो नवेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम्। नाभिवाद्यः सविदुषा यथा शूद्रस्तथैव सः”
“अभिवादने कृते प्रत्य-भिवादयित्रा अभिवादको विपादिः आयुष्मान् भवसौम्येति वाच्यः। अस्य चाभिवादकस्य यश्चाम त-स्यान्ते योऽकारादिः स्वरो नाम्नामकारान्तत्वनियमाभा-वात् स प्लुतः कार्य्यः स्वरापेक्षञ्चेदकारान्तत्वं व्यञ्जना-न्तेऽपि नाम्नि सम्भवति स्वरान्तरस्य च व्यञ्जनान्तेनाम्नोऽसम्भवात् आह पूर्वाक्षर इति। पूर्वनामगतम-क्षरं संश्लिष्टं यस्य स पूर्वाक्षरः तन नामाक्षरं पकृव्य चा-कारादिः स्वरः प्लुतः कार्यः। एतच्च वाक्यस्य टेः प्लुतउदात्तः इत्यस्यानुवृत्तौ
“प्रत्यभिवादेऽशूद्रे” इति प्लुतंस्मरन् पाणिनिः स्फुटमुक्तवान्। व्याख्यातञ्च वृत्तिकृतावामनेन टेरिति किं व्यञ्जनान्तस्यैव टेः प्लुतो यथास्यादिति। तस्मादीदृशं प्रत्यभिवादनवाक्यम् आयुष्मान् भवसौम्य! शुभशर्म
३ न्! एवं क्षत्रियस्य वलवर्म
३ न् एवंवैश्यस्य वसुभूते
३ ”
“प्लुतो राजन्यविशां वेति कात्यायनव-चनात् क्षत्रियवैश्ययोः पक्षे प्लुतो न भवति। शूद्रस्यप्लुतो न कार्यः अशूद्र इति पाणिनिवचनात्।
“स्त्रिया-मपि निषेध” इति कात्यायनवचनात् स्त्रियामपि प्रत्य-भिवादनवाक्ये न प्लुतः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यभिवाद¦ m. (-दः) Returning a salute or obeisance, the benediction of a teacher. E. प्रति (re), अभिवाद salute; also प्रत्यभिवादन |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यभिवादः [pratyabhivādḥ] प्रत्यभिवादनम् [pratyabhivādanam], प्रत्यभिवादनम् Returning a salutation; यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् Ms.2.126.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यभिवाद/ प्रत्य्- m. return salutation Pa1n2. 8-2 , 83.