प्रत्यर्थी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यर्थी, [न्] त्रि, (प्रतिशोधं प्रतिकूलं वा अर्थ- यते इति । प्रति + अर्थ + णिनिः ।) शत्रुः । इत्यमरः । २ । ८ । ११ ॥ (यथा, साहित्य- दर्पणे । ३ परिच्छेदे । “नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि पाणिद्वयं वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं गच्छतः ॥”) पुं, प्रतिवादी । इति शब्दरत्नावली ॥ (यथा, मनुः । ८ । ७९ । “सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ । प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्व- यन् ॥”) अर्थिप्रतिपक्षः । यथा, -- “प्रत्यर्थिनोऽग्रगतो लेख्यं यथावेदितमर्थिना । समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ॥” “अर्थ्यत इत्यर्थः साध्यः । सोऽस्यास्तीत्यर्थी । तत्प्रतिपक्षः प्रत्यर्थी ।” इति मिताक्षरा ॥
