प्रत्यवस्कन्दनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यवस्कन्दनम्, क्ली, (प्रति + अव + स्कन्द + ल्युट् ।) चतुर्व्विधोत्तरान्तर्गतोत्तरविशेषः । यथा, -- “प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहलब्धमिति वा । यथाह नारदः । अर्थिना लेखितो योऽर्थः प्रत्यर्थी यदि तन्तथा । प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम् ॥” इति मिताक्षरा ॥ अपि च । “अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तन्तथा । प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥” इति व्यवहारतत्त्वे बृहस्पतिवचनम् ॥
