सामग्री पर जाएँ

प्रत्यालीढम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यालीढम्, क्ली, (प्रति + आ + लिह + क्तः ।) धन्विनां पादसंस्थानविशेषः । तत्रोर्द्धस्य वाम- पादप्रसारे दक्षिणपादसङ्कोचः । इत्यमर- टीकायां भरतः ॥ धन्विनामवस्थानविशेषः । यथा, -- “स्यात् प्रत्यालीढमालीढं समं पादं तथापरम् । वैशाखं मण्डलञ्चेति धन्विनां स्थानपञ्चकम् ॥ स्याद्दक्षपादसङ्कोचात् वामपादप्रसारणात् । प्रत्यालीढमिति प्रोक्तमालीढं तद्विपर्य्यर्यात् ॥ तुल्यं पादयुगं यत्र समपादमुदाहृतम् । वितस्त्यन्तरितं पादयुगं वैशाखमुच्यते । मण्डलाकारपादाभ्यां मण्डलं स्थानमीरितम् ॥” इति शब्दरत्नावली ॥ (यथा च यादवः । “स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । वितस्त्यन्तरगौ पादौ मण्डलं तोरणाकृती ॥ समानौ स्यात् समपदमालीढं पदमग्रतः । दक्षिणं वाममाकुञ्च्य प्रत्यालीढं विपर्य्ययः ॥”) अशिते, त्रि । इति मेदिनी । ढे, १२ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यालीढम् [pratyālīḍham], A particular attitude in shooting (opp. लीढ q. v.).

"https://sa.wiktionary.org/w/index.php?title=प्रत्यालीढम्&oldid=345222" इत्यस्माद् प्रतिप्राप्तम्