प्रत्याहारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्याहारः, पुं, (प्रति + आ + हृ + भावे घञ् ।) स्वस्वविषयेभ्य इन्द्रियाकर्षणम् । तत्पर्य्यायः । उपादानम् २ । इत्यमरः ॥ प्रत्याहरणम् ३ । इति शब्दरत्नावली ॥ स च योगाङ्गविशेषः । यथा, “प्रत्याहारश्च तर्कश्च प्राणायामस्तृतीयकः । समाधिर्धारणं ध्यानं षडङ्गो योगसंग्रहः ॥” इति तट्टीकायां भरतः ॥ प्रत्याहारमाह । “शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्य्याच्चित्तान्तकारीणि प्रत्याहारपरायणः ॥” इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ अपि च । “इन्द्रियाणीन्द्रियार्थेभ्यः समाहृत्य स्थितो हि सः । मनसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥” इति गारुडे २४० अध्यायः ॥ (यथा च पातञ्जले साधनपादे । “यमनियमासनप्राणायामप्रत्याहारधारणा- ध्यानसमाधयोऽष्टावङ्गानि ॥” २९ ॥ “स्वस्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इन्द्रियाणां प्रत्याहारः ॥” ५४ ॥) अल्पेन बहूनां ग्रहणम् । यथा, अच् इति द्व्यक्षरेण सर्व्वस्वराणां ग्रहणम् । इति भरतः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्याहारः [pratyāhārḥ], 1 Drawing back, marching back, retreat.
Keeping back, withholding.
Restraining the organs; स्वविषया$संप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्या- हारः Pātañjala.
Dissolution of the world; प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गते$हनि Mb.12.233.1.
(In gram.) The comprehension of several letters or affixes into one syllable, effected by combining the first letter of a Sūtra with its final indicatory letter, or in the case of several Sūtras, with the final letter of the last member; thus अण् is the प्रत्याहार of the Sūtra अइउण्; अच् (vowels) of the four Sūtras अइउण्, ऋलृक्, एओङ्, ऐऔच्; हल् of the consonants; अल् of all letters.
Abridgment.
(In drama) N. of a particular part of the पूर्वरङ्ग.
