प्रत्युषस्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्युषः, [स्] क्ली, (प्रत्योषति नाशयत्यन्धकार- मिति । प्रति + उष् + “उषः कित् ।” उणा० ४ । २३३ । इति असिः । स च कित् ।) प्रत्यूषः । इत्यमरः । १ । ४ । २ ॥ यथा, भरत- धृतसूर्य्यशतके । “याति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युषः- पारिजातः ॥”
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्युषस् नपुं।
प्रत्यूषः
समानार्थक:प्रत्यूष,अहर्मुख,कल्य,उषस्,प्रत्युषस्,व्युष्ट,विभात,गोसर्ग,प्रभात,उषा
1।4।2।2।5
घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥
पदार्थ-विभागः : , द्रव्यम्, कालः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्युषस्¦ न॰ प्रति + उष--आधारे कसुत्। प्रातःकाले अमरः।
“याति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युषः पारिजातः” सूर्य्यशतकम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्युषस्¦ n. (-षः) Morning. E. See प्रत्यूषस् |