सामग्री पर जाएँ

प्रत्यूषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यूषः, पुं, (प्रत्यूषति रुजति कामुकानिति । प्रति + ऊष् रोगे + कः ।) प्रभातम् । इत्य- मरः । १ । ४ । २ ॥ (यथा, मेघदूते । ३३ । “दीर्घीकुर्व्वन् पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ॥”) सूर्य्यः । इति शब्दरत्नावली ॥ वसुभेदः । इति जटाधरः ॥ (यथा, विष्णुपुराणे । १ । १५ । १११ । “वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् । आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभावश्च वसवो नामभिः स्मृताः ॥”)

प्रत्यूषः, [स्] क्ली, (प्रति + ऊष् + असिः ।) प्रभातम् । इत्यमरटीकायां भरतः ॥ (यथा, सुश्रुते । १ । २१ । “प्रत्यूषस्यपराह्णे तु जीर्णेऽन्ने च प्रकुप्यति ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यूषः [pratyūṣḥ] षम् [ṣam], षम् Day-break, morning, dawn; प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः Me.31; महत्येव प्रत्यूषे Ś.2.

षः The sun.

N. of one of the eight Vasus.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यूषः&oldid=346356" इत्यस्माद् प्रतिप्राप्तम्