प्रदरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रदरः, पुं, (प्र + दॄ विदारणे + “ॠदोरप् ।” ३ । ३ । ५७ । इति भावादौ यथायथं अप् ।) भङ्गः । बाणः । इत्यमरः ॥ विदारः । नारी- रुग्भेदः । इति मेदिनी ॥ * ॥ अस्य नामान्तरं असृग्दरम् । तत्तु फलितयोन्या रक्तादिधातु- क्षरणम् । अस्य निदानम् । यथा, -- “विरुद्धमद्याध्यशनादजीर्णाद् गर्भप्रपातादतिमैथुनाच्च । यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च ॥ असृग्दरं भवेत् सर्व्वं साङ्गमर्द्दं सवेदनम् ॥ तस्यातिवृद्धौ दौर्ब्बल्यं श्रमो मूर्च्छा मदस्तृषा । दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ॥” स च चतुर्व्विधो यथा, -- “तं श्लेष्मपित्तानिलसन्निपातै- श्चतुःप्रकारं प्रदरं वदन्ति ॥” श्लैष्मिकस्य तस्य लक्षणम् । “आमं सपिच्छाप्रतिमं सपाण्डु- पुलाकतोयप्रतिमं कफात्तु ॥” पैत्तिकस्य तस्य लक्षणम् । “सपीतनीलासितरक्तमुष्णं पित्तार्त्तियुक्तं भृशवेगि पित्तात् ॥” वातिकस्य तस्य लक्षणम् । “रूक्षारुणं फेनिलमल्पमल्पं वातार्त्तिवातात् पिशितोदकाभम् ॥” तस्य त्रैदोषिकस्य लक्षणम् । “सक्षौद्रसर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषात् । तञ्चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्व्वीत भिषक् चिकित्साम् ॥” इति माधवकरः ॥ * ॥ अस्यौषधं यथा, -- “घृततुल्या रुद्रलाक्षा पीता क्षीरेण वै सहा । प्रदरं हरते रोगं नात्र कार्य्या विचारणा ॥” इति गारुडे १९६ अध्यायः ॥ * ॥ अपि च । “दध्ना सौवर्च्चलाजाजीमधूकं नीलमुत्पलम् । पिबेत् क्षौद्रयुतं नारी वातासृग्दरशान्तये ॥ एषां प्रत्येकं माषद्वयम् । सर्व्वमेकीकृत्य दध्ना कर्षचतुष्टयेन पिष्ट्वा तत्र माषाष्टकं मधु निःक्षिप्य पेयम् ॥ * ॥ “मधुकं कर्षमेकन्तु चतुष्कर्षां सितान्तथा । तण्डुलोदकसंपिष्टां लोहिते प्रदरे पिबेत् ॥ वला कङ्कतिलाख्या या तस्या मूलन्तु चूर्णितम् । लोहिते प्रदरे खादेच्छर्करामधुसंयुतम् ॥ * ॥ शुचिस्थाने व्याघ्रनख्या मूलमुत्तरदिग्भवम् । नीतसुत्तरफल्गुन्यां कटिबद्धं हरेदसृक् ॥ * ॥ रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम् । असृग्दरं सर्व्वभवं निहन्ति यासञ्च भार्गी सह नागरेण ॥ * ॥ अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम् । यथाबलं पिबेत् प्रातस्तीव्रासृग्दरनाशनम् ॥” अशोकवल्कलपलं द्वात्रिंशत्पलसंमितेन जलेन निष्क्वाथ्य शेषेण पलाष्टकक्वाथेन सह क्षीरं पलाष्टकमितं विपचेत् तत्तु दुग्धावशेषं कर्त्तव्यं तन्मध्ये पलचतुष्टयमितं दुग्धं पेयं वह्निबला- पेक्षया वा ॥ * ॥ “कुशमूलं समुद्धृत्य पेषयेत्तण्डुलाम्बुना । एतत् पीत्वा त्र्यहं नारी प्रदरात् परिमुच्यते ॥” इति भावप्रकाशः ॥ (तथास्य चिकित्सान्तरं यथा, -- “काकजानुकमूलं वा मूलं कार्पासमेव वा । पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ॥” “कुशमूलं समुद्धृत्य पेषयेत्तण्डुलाम्बुना । एतत् पीत्वात्र्यहान्नारी प्रदरात् परिमुच्यते ॥” “प्रदरं हन्ति वलायामूलं दुग्धेन मधुयुतं पीतम् ॥” “गुडेन वदरीचूर्णं मोचमामं तथा पयः । पीता लाक्षा च सघृता पृथक्प्रदरनाशनाः ॥” इति चक्रपाणिसंग्रहेऽसृग्दराधिकारे ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रदरः [pradarḥ], 1 Rending, tearing.
(a.) A fracture, crack, cleft, crevice, chasm; इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति Rām.3.4.12; सीमानः प्रदरोदरेषु विरलस्वच्छाम्भसः U.2.16. (b) Breach, hole.
The dispersion of an army; न सन्निपाते प्रदरं वधं वा कुर्युरीदृशाः Mb.12.1.34.
An arrow; त्रीण्येव च प्रदराणां स्म पार्थ Mb.8.76.16.
A kind of disease of women.
