सामग्री पर जाएँ

प्रदिग्धम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रदिग्धम्, क्ली, (प्र + दिह् + कर्म्मणि क्तः ।) मांसव्यञ्जनभेदः । यथा, शब्दचन्द्रिकायाम् । “मांसं बहुघृतैर्भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥ तदेव घृततक्राढ्यं प्रदिग्धं सत्रिजातकम् ॥” त्रि, प्रलिप्तः ॥ (रूषितः । यथा, रामायणे । ५ । ५ । २८ । “अव्यक्तरेखामिव चन्द्रलेखां पांशुप्रदिग्धामिव हेमरेखाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रदिग्धम्&oldid=151155" इत्यस्माद् प्रतिप्राप्तम्