सामग्री पर जाएँ

प्रदीपनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रदीपनः, पुं, (प्रदीपयतीति । प्र + दीप् + णिच् + ल्युः ।) स्थावरविषभेदः । इत्यमरः । १ । ८ । १० ॥ (अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “काकोलो गरलः क्ष्वेडो वत्सनाभः प्रदीपनः । शौक्लिकेयो ब्रह्मपुत्रो विषं स्याद्गरलो विषः ॥”) तस्य लक्षणम् यथा, -- “वर्णतो लोहितो यः स्यात् दीप्तिमान् दहन- प्रभः । महादाहकरः पूर्ब्बैः कथितः स प्रदीपनः ॥” इति राजनिर्घण्टः ॥ प्रकाशके, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=प्रदीपनः&oldid=151159" इत्यस्माद् प्रतिप्राप्तम्