प्रपातः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रपातः, पुं, (प्रपतत्यस्मादिति । प्र + पत् + “अक- र्त्तरि च कारके संज्ञायाम् ।” ३ । ३ । १९ । इति घञ् ।) निरवलम्बनपर्व्वतादिपार्श्वम् । आरडि इति ख्यातम् । यस्मात् पतने अव- स्थानक्रियाविशेषो नास्ति । तत्पर्य्यायः । अतटः २ भृगुः ३ । इत्यमरः । २ । ३ । ४ ॥ (यथा, देवीभागवते । ४ । ७ । ४९ । “मधु पश्यति मूढात्मा प्रपातं नैव पश्यति । करोति निन्दितं कर्म्म नरकात् न बिभेति च ॥”) निर्झरः । इति मेदिनी । ते, १२७ ॥ (भावे घञ् ।) अभ्यवस्कन्दः । कूलम् । इति हेम- चन्द्रः ॥ (उड्डीनगतिविशेषः । यथा, पञ्च- तन्त्रे । २ । ५७ । “अहं सम्पातादिकानष्टा- वुड्डीनगतिविशेषान् वेद्मि । उक्तञ्च । सम्पातञ्च प्रपातञ्च महापातं निपातनम् । चक्रं तिर्य्यक् तथा चोर्द्ध्वमष्टमं लघुसंज्ञकम् ॥” प्रपातनम् । यथा, सुश्रुते चिकित्सितस्थाने । ४० अध्याये । “तत्तु नस्यं देयं वाताभिभूते शिरसि दन्तकेश- श्मश्रुप्रपातदारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरो- पघातनासारोगस्य शोषापबाहुकाकालज- वलीपलितप्रादुर्भावदारुणप्रवाधेषु इति ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रपातः [prapātḥ], 1 Going forth or away, departure.
Falling down or into, a fall; मनोरथानामतटप्रप्रातः Ś.6.1; Ku.6.57.
A sudden attack.
A cascade, waterfall, the place over which water falls down; गङ्गा- प्रपातान्तनिरूढशष्पं गौरीगुरोर्गह्वरमाविवेश R.2.26.
A bank, shore.
A precipice, steep rock; प्राप्ताः प्रपातनिकटं सङ्कटेन महीयसा Parṇāl.3.3.
Falling out or loss, as in केशप्रपात.
Emission, discharge, efflux, as in वीर्यप्रपात.
Throwing oneself down from a rock.
A particular mode of flight. -Comp. -अम्बु n. water falling from a rock.
