सामग्री पर जाएँ

प्रपौण्डरीकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रपौण्डरीकम्, क्ली, (पुण्डरीक + स्वार्थे अण् । प्रकृष्टं पौण्डरीकस्येव पुष्पं यस्य ।) हस्तिनां मनुष्याणाञ्च चक्षुष्यः क्षुद्रविटपः । शालपर्णीपत्रतुल्यपत्रः । पुण्डरिया ख्यातः । इत्यमरभरतौ ॥ तत्पर्य्यायः । चक्षुष्यम् २ शीतम् ३ श्रीपुष्पम् ४ पुण्डरी ५ । इति रत्नमाला ॥ पुण्डर्य्यम् ६ पुण्डरीयकम् ७ पौण्डरीयम् ८ सुपुष्पम् ९ सानुजम् १० अनु- जम् ११ ॥ (यथा, सुश्रुते सूत्रस्थाने १६ अध्याये । “प्रपौण्डरीकं मधुकं समङ्गां धवमेव च । तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम् ॥” अस्य गुणाः । चक्षुर्हितत्त्वम् । मधुरत्वम् । तिक्तत्वम् । शीतलत्वम् । पित्तरक्तव्रणज्वर- दाहतृषानाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “पौण्डर्य्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् । चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफास्रनुत् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रपौण्डरीकम्&oldid=151230" इत्यस्माद् प्रतिप्राप्तम्