प्रपौत्त्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रपौत्त्रः, पुं, (प्रकर्षेण पौत्त्रः । पौत्त्रस्यापि पुत्त्रत्वात् तथात्वम् ।) पौत्त्रस्य पुत्त्रः । तत्पर्य्यायः । प्रतिनप्ता २ । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेयपुराणे । ११० । -१५ । “पुत्त्रान् पौत्त्रान् प्रपौत्त्रांश्च तथान्यानिष्टबान्ध- वान् । पश्यतो मे मृतान् दुःखं किमल्पं हि भवि- ष्यति ॥”)
