प्रफुल्लः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रफुल्लः, त्रि, (फलतीति । ञि फलाविसरणे + क्तः । “आदितश्चेति ।” ७ । २ । १६ । इति इड- भावः । “तिच ।” ७ । ४ । ८९ । इति उत् । “अनुपसर्गात् फुल्लक्षीवेति ।” ८ । २ । ५५ । इति निष्ठातस्य लः । ततः प्रादिसमासः । यद्बा, प्रफुल्लतीति । प्र + फुल्ल विकसने + अच् ।) विकाशयुक्तः । तत्पर्य्यायः । उत्फुल्लः २ संफुल्लः ३ व्याकोषः ४ विकचः ५ स्फुटः ६ फुल्लः ७ विक- सितः ८ । इत्यमरः । २ । ४ । ७ ॥ प्रबुद्धः ९ जृम्भः १० स्मितः ११ उन्मिषितः १२ दलितः १३ स्फुटितः १४ उच्छ्वसितः १५ विजृम्भितः १६ स्मेरः १७ विनिद्रः १८ उन्निद्रः १९ विमुद्रः २० हसितः २१ । इति हेमचन्द्रः ॥ (यथा, रघौ । २ । २९ । “स पाटलायां गवि तस्थिवांसं धनुर्धरः केशरिणं ददर्श अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥”)
