सामग्री पर जाएँ

प्रबालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रबालः, पुं, क्ली, (प्रबलतीति । प्र + बल् प्राणने + “ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः । यद्वा, प्र + बल् + णिच् + अच् ।) रक्तवर्णवर्त्तुलाकाररत्नविशेषः । पला इति मुङ्गा इति च भाषा ॥ तस्याधिष्ठात्री देवता मङ्गलः । इति ज्योतिषम् ॥ तत्पर्य्यायः । विद्रुमः २ । इत्यमरः । २ । २ । ९३ ॥ अङ्गारकमणिः ३ अम्भोधिवल्लभः ४ भौमरत्नम् ५ रक्ताङ्गः ६ रक्ता- कारः ७ लतामणिः ८ । अस्य गुणाः । मधु- रत्वम् । अम्लत्वम् । कफपित्तादिदोषनाशित्वम् । स्त्रीणां वीर्य्यकान्तिकरत्वम् । धृते मङ्गलदायि- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । सारकत्वम् । शीतत्वम् । कषायत्वम् । स्वादु- त्वम् । वान्तिकारित्वम् । चक्षुर्हितत्वम् । धारणे पापालक्ष्मीनाशित्वञ्च ॥ इति राजवल्लभः ॥ * ॥ तस्य शुभलक्षणं यथा, -- “शुद्धं दृढं घनं वृत्तं स्निग्धं गात्रसुरङ्गकम् । समं गुरु सिराहीनं प्रबालं धारयेत् शुभम् ॥” तस्याशुभलक्षणं यथा, -- “गौरं रङ्गजलाक्रान्तं वक्रसूक्ष्मं सकोटरम् । रूक्षकृष्णं लघु श्वेतं प्रबालमशुभं त्यजेत् ॥” इति राजनिर्घण्टः ॥ * ॥ तस्योत्पत्त्यादि यथा, -- सूत उवाच । “आदाय शेषस्तस्यान्त्रं यमस्याकम्बलादिषु । चिक्षेप तत्र जायन्ते विद्रुमाः सुमहागुणाः ॥ तत्र प्रधानं शशलोहिताभं गुञ्जाजवापुष्पनिभं प्रदिष्टम् । सनीसकं देवकरोमकञ्च स्थानानि तेषु प्रभवं सुरागम् ॥ अन्यत्र जातञ्च न तत् प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात् ॥ प्रसन्नं कमलं स्निग्धं सुरागं विद्रुमं हि तत् । धनधान्यकरं लोके विषार्त्तिभयनाशनम् ॥ परीक्षा पुलकस्योक्ता रुधिराख्यस्य वै मणेः । स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक ! ॥” इति गारुडे ८० अध्यायः ॥ * ॥ अथ विद्रुमपरीक्षा । “श्वेतसागरमध्ये तु जायते वल्लरी तु या । विद्रुमा नाम रत्नाख्या दुर्ल्लभा वज्ररूपिणी ॥ पाषाणं प्रभजत्येषा प्रयत्नात् क्वथिता सती । विद्रुमं नाम यद्रत्नमामनन्ति मनीषिणः ॥ * ॥ ब्रह्मादिजातिभेदेज तच्चतुर्व्विधमुच्यते । अरुणं शशरक्ताख्यं कोमलं स्निग्धमेव च । प्रबालं विप्रजातिः स्यात् सुखवंध्यं मनोरमम् ॥ जवाबन्धूकसिन्दूरदाडिमीकुसुमप्रभम् । कठिनं दुर्व्वेध्यमस्निग्धं क्षत्त्रजातिं तदुच्यते ॥ पलाशकुसुमाभासं तथा पाटलसन्निभम् । वैश्यजातिर्भवेत् स्निग्धं वर्णाढ्यं मन्दकान्तिभम् ॥ रक्तोत्पलदलाकारं कठिनं न चिरद्युति । विद्रुमं शूद्रजातिः स्याद्वायुवेध्यं तथैव च ॥ * ॥ रक्तता स्निग्धता दार्य्यं चिरद्युतिः सुवर्णता । प्रबालानां गुणाः प्रोक्ता धनधान्यकराः पराः ॥ हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम् । तत्र लिप्तो भवेन्निम्बकल्कोऽतिमधुरः स्थितः । तस्य धारणमात्रेण विषवेगः प्रशाम्यति ॥ * ॥ विवर्णता तु खरता प्रबाले दूषणद्वयम् । रेखाकाकपदौ बिन्दुर्यथा वज्रेषु दोषकृत् । तथा प्रबाले सर्व्वत्र वर्जनीयं विचक्षणैः ॥ रेखा हन्याद्यशो लक्ष्मीमावर्त्तः कुलनाशनः । पट्टलो रोगकृत् ख्यातो बिन्दुर्धनविनाशकृत् ॥ त्रासः संजनयेत्त्रासं नीलिका मृत्युकारिणी । मूल्यं शुद्धप्रबालस्य रूप्यद्विगुणमुच्यते ॥ धारणेऽस्यापि नियमो जातिभेदेन पूर्ब्बवत् ॥” * ॥ तथाहि । “विरूपजातिं विषमं विवर्णं खरप्रबालं प्रवहन्ति ये ये । ते मृत्युमेवात्मनि वै वहन्ति सत्यं वदत्येष कृती मुनीन्द्रः ॥” इति युक्तिकल्पतरौ प्रबालपरीक्षा ॥ * ॥ (अस्य संशोधनादिकं यथा, -- “कुमार्य्या तण्डुलीयेन तुल्येन च निषेचयेत् । प्रत्येकं सप्तवारांश्च तप्ततप्तानि कृत्स्नशः ॥ मौक्तिकानि प्रबालानि तथा रत्नान्यशेषतः । क्षणाद्विविधवर्णानि म्रिथन्ते नात्र संशयः ॥ श्रीदुग्धेन प्रवालञ्च भावयित्वा तु हण्डिके । मध्येऽपि तक्रसहितं स्थापयेत्तन्निरोधयेत् । चुल्ल्यामग्निप्रतापेन म्रियते प्रहरद्वये ॥ इति प्रबालमारणम् ॥” इति वैद्यकरसेन्द्रसंग्रहे जारणमारणाधिकारे ॥) किशलयः । (यथा, कुमारे । १ । ४४ । “पुष्पं प्रबालोपहितं यदि स्यात् मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्य्याद्विशदस्य तस्या- स्ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य ॥”) वीणादण्डः । इति मेदिनी । ले, १०७ ॥

"https://sa.wiktionary.org/w/index.php?title=प्रबालः&oldid=151243" इत्यस्माद् प्रतिप्राप्तम्