सामग्री पर जाएँ

प्रबोधनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रबोधनी, स्त्री, (प्रबोध्यतेऽनयेति । प्र + बुध् + णिच् + ल्युट् + ङीप् ।) दुरालभा । इति राज- निर्घण्टः ॥ (प्रबुध्यते हरिरत्रेति ।) श्रीहरे- रुत्थानैकादश्यादिः । अथ प्रबोधनीकृत्यम् । “शयन्यामिव कृत्यास्यां क्षीराम्भोधिमहोत्सवम् । प्रबोध्य कृष्णं संपूज्य विधिनारोहयेद्रथम् ॥” अथ प्रबोधनीकृत्यनित्यता । स्कान्दे तत्रैव । “जन्मप्रभृति यत् पुण्यं नरेणोपार्जितं भुवि । वृथा भवति तत्मर्व्वं न कृत्वा बोधवासरम् ॥” अथ प्रबोधनीमाहात्म्यम् । तत्रैव । “प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् । मुक्तिदं कृतबुद्धीनां शृणु त्वं मुनिसत्तम ! ॥ तावद्गर्जति विप्रेन्द्र ! गङ्गा भागीरथी क्षितौ । यावन्नायाति पापघ्नी कार्त्तिके हरिबोधनी ॥ तावद्गर्जन्ति तीर्थानि आसमुद्रसरांसि च । यावत् प्रबोधनी विष्णोस्तिथिर्नायाति कार्त्तिके ॥ वाजपेयसहस्राणि अश्वमेधशतानि च । एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः ॥ दुर्लभञ्चैव दुष्प्रापं त्रैलोक्ये सचराचरे । तदपि प्रार्थितं विप्र ! ददाति हरिबोधनी ॥ ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्च सुखसम्पदः । ददात्युपोषिता विप्र ! हेलया हरिबोधनी ॥ मथुरायान्तु किं वाच्यं जागरे हरिसन्निधौ । कार्त्तिके वोधनीं प्राप्य ततः श्रेयः परं न हि ॥ मथुरायां प्रबोधन्यां कृतजागरणस्य हि । क्षणार्द्धदानतो वैश्योऽमोचयद्ब्रह्मराक्षसम् ॥ जागरस्य च माहात्म्यं गीतवादित्रनर्त्तनम् । हरेः प्रीतिकरं रात्रौ वक्तुं मे नैव शक्यते ॥ यस्तु गायति कृष्णाग्रे कौमुदीं द्वादशीं क्षणम् । सर्व्वलोकान् परित्यज्य विष्णुलोकं स गच्छति ॥” अतएवोक्तं तत्रैव । “राज्यमन्यत्र संत्यज्य स्फीतं निहतकण्टकम् । कार्त्तिके मथुरायां वै कौमुद्यां जागरं चरेत् ॥” अथ पारणादिनकृत्यम् । “प्रातर्नित्यक्रियां कृत्वा शक्त्या संभोज्य भूसुरान् । गृह्णन् कृतव्रताच्छैद्रं प्रदद्याद्दक्षिणादिकम् ॥ दानं यथाव्रतं तेभ्यो दत्त्वा पारणमाचरेत् । प्रवर्त्तयेच्च संत्यक्तं चातुर्मास्यव्रतेषु यत् ॥” तथा च भविष्योत्तरे तत्रैव । “प्रभाते विमले स्नात्वा भोजयेदन्नविस्तरैः ॥ घृतक्षीरदधिक्षौद्रकासारगुडमोदकैः । अर्च्चयेच्चन्दनैश्चूर्णैः पुष्पैर्गन्धैर्द्बिजोत्तमान् ॥ आचान्तेभ्यस्ततो दद्यात्त्यक्तं यत्किञ्चिदेव हि । सुवाचा सुमनोऽभीष्टपत्रपुष्यफलादिकम् ॥ चतुरो वार्षिकान्मासान् नियमं यस्य यत् कृतम् । कथयित्वा द्विजेभ्यस्तद्दद्याद्भक्त्या सुदक्षिणाम् ॥” एवमेव पाद्मे । तत्रैव किञ्चाधिकम् । “चातुर्म्मास्यव्रते विप्राः पश्चादच्छिद्रवाचनम् ॥” इति श्रीहरिभक्तिविलासे १६ विलासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रबोधनी¦ स्त्री प्रबोध्यते हरिरत्र प्र + बुध--णिच् आधारे ल्युट्ङीप्। कार्त्तिकशुक्लैकादश्याम् तत्र शयितस्य हरेरुत्था-पनानुकूलव्यापारस्याचरणात्तस्यास्तथात्वम्। उत्थानैका-दशीशब्दे तस्याः खण्डभेदस्य ग्राह्यता दर्शिता। तन्माहात्म्यं च पद्मपु॰ उ॰ ख॰

१२

६ अ॰ उक्तं यथा
“ब्रह्मोवाच प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यबर्द्ध-नम्। मुक्तिदं शुद्धबुद्धीनां शृणुष्व मुनिसत्तम!। ता-वद्गर्जन्ति तीर्थानि पुण्यान्यायतनानि च। यावत् प्रबो-धनी विष्णोस्तिथिर्नायाति कार्त्तिके। अश्वमेधसहस्राणिवाजपेयशतानि च। एकेनैवोपवासेन प्रबोधन्यां भवन्तिहि। मेरुमन्दरतुल्यानि पापानि सुबहून्यपि। भस्म॰सात् कुरुते मर्त्यो हरिबोधन्युपासनात्। पूर्वजन्मसह-स्रेषु यत्पापं समुपार्जितम्। जागरणं प्रबोधन्यां द-हते तूलराशिवत्। उपवासं प्रबोधन्यां यः करोतिसमाहितः। विधिवच्च मुनिश्रेष्ठ! यथोक्तं लमते फलम्। यानि कानि च तीर्थानि त्रैलोक्ये संवसन्तिवै। तानि तस्य गृहे सम्यक् कृता येन प्रवोधनी। किंतस्य बहुभिः पुण्यैः सुरलोकसुखप्रदैः। ऊर्जे सन्तो-षिता येन संपूणां हरिबोधनी। बोधनीं समुपोष्यैवमुक्तिभागी भवेन्नरः। प्रबोधन्यां नरश्रेष्ठ! न पुनर्गर्भ-मादिशेत्। स्नानं दानं जपो होमः समुद्दिश्य जना-र्दनम्। नरैर्यत् क्रियते ऊर्जे प्रबोधन्यां तदक्षयम्। येऽर्चयन्ति नरास्तस्यां भक्त्या विष्णुं जगत्पतिम्। उ-षित्वा वाधनीं ते तु प्रभवेयुर्द्दिवौकसः। महाव्रतमिदंपुत्र! महापापौधनाशनम्। प्रबोधन्यां मुने! विष्णोर्वि-धिवत् समुपोषणम्। स ज्ञानी च स यीगी च स तपस्वीजितेन्द्रियः। स्वर्गमोक्षौ च तस्यास्तां य उपास्ते प्रवो-धनीम्। यत्तु जन्मकृतं पापं स्वल्पं वा यदि वा बहु। करोति भस्मसाद्विष्णुः प्रवोधन्यां प्रपूजितः। हरिपूजाविधातव्या कार्त्तिके बोधवासरे। गीतशास्त्रविनोदेनप्रबोधन्यान्तु जागरात्। चन्द्रसूर्य्योपरागे च यत् फलंपरिकीर्त्तितम्। तस्मात् सहस्रगुणितं प्रबोधन्यां हिजागरात्। स्तानं दानं जपो होपः स्वाध्यायश्चार्चनंहरेः। एतस्मात् कोटिगुणितं प्रबोधन्यां हि जागरात्”। स्का{??} जन्तप्रनृति यत्पुण्यं नरेणोपार्जितं भुवि। [Page4473-b+ 38] वृथा भवति तत्सर्वं न कृत्वा बोधवासरम्”।
“प्रबो-धन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम्। मुक्तिदंकृतबुद्धीनां शृणु त्वं मुनिसत्तम!। तावद्गर्जति वि-प्रेन्द्र! गङ्गाभागीरथी क्षितौ। यावन्नायाति पापघ्नीकार्त्तिके हरिबोधनी। तावद्गर्जन्ति तीर्थनि आस-मुद्रसरांसि च। यावत् प्रबोधनी विष्णोस्तिथिर्ना-याति कार्त्तिके। वाजपेयसहस्राणि अश्वमेधशतानिच। एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः। दुर्लभञ्चैवदुष्प्रापं त्रैलोक्ये सचराचरे। तदापि प्रार्थितं विप्र!ददाति हरिबोधनी। ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्चसुखसम्पदः। ददात्युपोषिता विप्र! हेलया हरि-बोधनी। मेरुमन्दरतुल्यानि पापान्यत्यूर्जितान्यपि। एकेनैवोपवासेन दहते हरिबोधनी। पृथिव्यां यानिदानानि दत्त्वा यत् फलमाप्नुते। एकेनैवोपवासेन ददातिहरिबोधनी” हरि॰ वि॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रबोधनी/ प्र- f. the 11th day in the light half of the month कार्त्तिक, celebrated as a festival in commemoration of the waking of विष्णुPur.

"https://sa.wiktionary.org/w/index.php?title=प्रबोधनी&oldid=502303" इत्यस्माद् प्रतिप्राप्तम्