प्रबोधिनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रबोधिनी, स्त्री, (प्रबोधयति हरिमिति । प्र + बुध् + णिच् + णिनिः । ङीप् ।) प्रबोधनी । उत्थानैकादशी । यथा, -- वराह उवाच । “उपवासासमर्थानां सदैव पृथुलोचने ! । एका सा द्वादशी पुण्या उपोष्या या प्रबोधिनी ॥ तस्यामाराध्य विश्वेशं जगतामीश्वरेश्वरम् । प्राप्नोति सकलं तद्धि द्वादशद्वादशीफलम् ॥ पूर्ब्बभाद्रपदा योगे सैव वा द्वादशी भवेत् । अतीव महती तस्यां सर्व्वकृत्यमथाक्षयम् ॥ उत्तराङ्गारसहिता यदि चैकादशी भवेत् । तदा कोटिगुणं पुण्यं केशवाल्लभते फलम् ॥ सकृदेवार्च्चिते तस्यां सर्व्वं कृतमिहाक्षयम् । यथा प्रबोधिनी पुण्या तथा यस्यां स्वपेद्धरिः ॥ उपोष्या हि महाभागे ! अनन्तफलदा हि सा । शयने बोधने चैव हरेस्तु परिवर्त्तने ॥ उपोष्यैव विधानेन नरो निर्म्मलतां ब्रजेत् । तस्मात् सर्व्वप्रयत्नेन द्बादशीं समुपोषयेत् ॥ यदीच्छेत विशालाक्षि ! शाश्वतीं गतिमात्मनः । एकादशी सोमयुक्ता कार्त्तिके मासि भामिनि ! । उत्तराभद्रसंयोगे अनन्ता सा प्रकीर्त्तिता ॥ तस्यां यत् क्रियते भद्रे ! सर्व्वमानन्त्यमश्नुते । अनन्तपुण्यफलदा तेनानन्ता स्मृता प्रिये ! ॥ एकादशी भौमयुता यदा स्याद्भूतधारिणि ! ॥ स्नात्वा देवं समभ्यर्च्च्य प्राप्नोति परमं फलम् । प्राप्नोति सकलं तद्धि द्बादशद्वादशीं नरः ॥ जलपूर्णं तदा कुम्भं स्थापयित्वा विचक्षणः । पञ्चरत्नसमोपेतं घृतपात्रयुतं तथा ॥ तस्यां स्कन्धे तु धरितं मत्स्यरूपं जनार्द्दनम् । माषकेण सुवर्णेन सुतप्तेन वरानने ! ॥ स्नापयित्वा विधानेन कुङ्कुमेन विलेपितम् । पीतवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ॥ पूजयेत् कमलैर्देवि ! मद्भक्तः संजितेन्द्रियः । मत्स्यं कूर्म्मं वराहञ्च नारसिंहञ्च वामनम् ॥ रामं रामञ्च कृष्णञ्च बुद्धञ्चैव तु कल्किनम् । एवं दशावतारांश्च पूजयेद्भक्तिसंयुतः ॥ पुष्पैर्धूपैस्तथा दीपैर्नैवेद्यैर्विविधैरपि । संपूज्यैवमलङ्कारैर्विविधैः पूजनञ्चरेत् ॥ ततस्तस्याग्रतो देयं नैवेद्यं पाचितं चितम् । एवं संपूज्य गोविन्दं दिवापि कमलेक्षणम् ॥ रात्रौ चोत्थापनं कार्य्यं देवदेवस्य सुव्रते ! । प्रभाते विमले स्नात्वा भक्त्या संपूज्य केशवम् ॥ पुष्पधूपादिनैवेद्यैः फलैर्नानाविधैः शुभैः । ततस्तु पूजयेद्विद्वानाचार्य्यं भक्तिसंयुतः ॥ अलङ्कारोपहारैश्च वस्त्राद्यैश्च स्वशक्तितः । पूजयित्वा विधानेन तं देवं प्रतिपादयेत् ॥ जगदादे जगद्रूप अनादे जगदादिकृत् । जलशायिन् जगद्योने प्रीयतां मे जनार्द्दन ! ॥ अनेनैव विधानेन कुर्य्यादेकादशीं नरः । तस्य पुण्यं भवेद्यत्तु तच्छृणुष्व वसुन्धरे ! ॥ यदि वक्त्रसहस्राणां सहस्राणि भवन्ति हि । संख्यातुं नैव शक्यन्ते प्रबोधिन्यास्तथा गुणाः ॥ तथाप्युद्देशमात्रेण शक्त्या वक्ष्यामि तच्छृणु । चन्द्रतारार्कसङ्काशमधिष्ठायानुजीविभः ॥ सहैव यानमागच्छेन्मम लोकं वसुन्धरे ! । ततः कल्पसहस्रान्ते सप्तद्बीपेश्वरो भवेत् ॥ आयुरारोग्यसम्पन्नो जन्मातीतो भवेत्ततः । ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ पापान्येतानि सर्व्वाणि श्रवणेनैव नाशयेत् ॥ पश्येच्च धीमानधनोऽपि भक्त्या स्पृशेन्मनुष्य इह धीयमानः । शृणोति भक्तस्य मतिं ददाति विकल्मषः सोऽपि दिवं प्रयाति ॥ दुःस्वप्नं प्रशममुपैति पठ्यमाने माहात्म्ये भवभयहारके नरस्य । यः कुर्य्याद्व्रतवरमेतदव्ययाया बोधिन्याः किमुत फलन्तु तस्य वाच्यम् ॥ ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम् । तैरात्मजन्म सफलं कृतं ये व्रतकारकाः ॥” इति वराहपुराणे प्रबोधिनीमाहात्म्यम् ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रबोधिनी/ प्र- f. the 11th day in the light half of कार्त्तिक(= बोधनी) Cat.
