प्रभवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रभवः, पुं, (प्रभवत्यस्मादिति । प्र + भू + “अक- र्त्तरि च कारके” इत्यधिकारात् अपादानार्थे । “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।) जन्महेतुः । पित्रादिः । आद्योपलब्धिस्थानम् । आद्योपलब्धये प्रथमज्ञानार्थं यत् स्थानं देशः सः । यथा । वाल्मीकिः श्लोकप्रभवः । हिमवान् गङ्गाप्रभवः । इत्यमरभरतौ ॥ अपां मूलम् । मुनिभेदः । इति हेमचन्द्रः ॥ पराक्रमः । इति मेदिनी । वे, ४१ ॥ जन्म । इति शब्दरत्नावली ॥ (यथा, कुमारे । ५ । ८१ । “विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥” सृष्टिः । यथा, देवीभागवते । १ । १६ । २ । “महाशक्त्या प्रभावेन त्वं मां विस्मृतवान् पुरा । प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः ॥” साध्यभेदः । यथा, हरिवंशे । १९६ । ४४ । “धर्म्माल्लक्ष्म्युद्भवः कामः साध्यासाध्यान् व्यजा- यत । प्रभवं च्यवनञ्चैवमीशानं सुरभीन्तथा ॥” त्रि, प्रभूतः । यथा, ऋग्वेदे । २ । ३८ । ५ । “नानौकांसि दुर्य्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः ॥” “प्रभवः प्रभूतो अग्नेः शोकस्तेजः ।” इति तद्भाष्ये सायनः ॥)
