सामग्री पर जाएँ

प्रभावः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रभावः, पुं, (प्र + भू + घञ् ।) कोषदण्डजतेजः । तत्पर्य्यायः । प्रतापः २ । इत्यमरः । २ । ८ । २० ॥ “कोषो धनं दण्डो दमः तद्धेतुत्वात् सैन्यमपि दण्डः ताभ्यां यत्तेजो जायते स प्रतापः प्रभा- वश्च कथ्यते ।” इति भरतः ॥ शक्तिः । (यथा, -- “प्रभावतो यथा धात्री लकुचस्य रसादिभिः । समापि कुरुते दोषत्रितयस्य विनाशनम् ॥ क्वचित्तु केवलं द्रव्यं कर्म्म कुर्य्यात् प्रभावतः । ज्वरं हन्ति शिरोबद्धा सहदेवी जटा यथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) तेजः । इति हेमचन्द्रः । ३ । ४०४ ॥ (यथा, रामायणे । २ । २३ । ३८ । “अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति । राज्ञश्चाप्रभुतां कर्त्तुं प्रभुत्वञ्च तव प्रभो ! ॥”) शान्तिः । इति मेदिनी । वे, ४० ॥ (प्रभागर्भ- जातः सूर्य्यपुत्त्रः । इति मात्स्ये । ११ । ३ ॥ कलावत्यां जातः स्वरोचिषो मनोः पुत्त्रविशेषः । यथा, मार्कण्डेये । ६६ । ५ । “ततश्च जज्ञिरे तस्य त्रयः पुत्त्राः स्वरोचिषः । विजयो मेरुनन्दश्च प्रभावश्च महाबलः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रभावः [prabhāvḥ], 1 Lustre, splendour, brilliance.

Dignity, glory, majesty, grandeur, majestic lustre; प्रभाववानिव लक्ष्यते Ś1; अहो प्रभावो महात्मनाम् K.

Strength, valour, power, efficacy; पूज्यते यदपूज्योपि यदगम्योपि गम्यते । वन्द्यते यदवन्द्योपि स प्रभावो धनस्य च ॥ Pt.1.7; जानपदः प्रतिपत्तिमानुत्साह- प्रभावयुक्तः Kau. A.1.9.

Regal power (one of the three Śaktis, q. v.).

A superhuman power of faculty, miraculous power; अनुभावांश्च जानासि ब्राह्मणानां न संशयः । प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ Mb.3.24.8 ('अनुभावो निश्चये स्यात् प्रभावः शक्तितेजसोः' Viśva.); प्रत्याहतास्त्रो गिरिश- प्रभावात् R.2.41,62;3.4.

Magnanimity.

Extension, circumference. -Comp. -ज a. Proceeding from majesty or regal power.

"https://sa.wiktionary.org/w/index.php?title=प्रभावः&oldid=350722" इत्यस्माद् प्रतिप्राप्तम्