सामग्री पर जाएँ

प्रभिन्नः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रभिन्नः, पुं, (प्र + भिद् + क्त ।) क्षरन्मदहस्ती । तत्पर्य्यायः । गर्ज्जितः २ मत्तः ३ । इत्यमरः । २ । ८ । ३६ ॥ भ्रान्तः ४ मदकलः ५ । इति राजनिर्घण्टः ॥ (यथा, रामायणे । २ । १५ । ४६ । “ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम् । रामोपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम् ॥” तथा च महाभारते । ७ । २७ । २० । “यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः । मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमून्तव ॥”) प्रकृष्टभेदविशिष्टे, त्रि ॥ (यथा, ऋतुसंहारे । २ । ५ । “प्रभिन्नवैदूर्य्यनिभैस्तृणाङ्कुरैः समाचिता प्रोत्थितकन्दलीदलैः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रभिन्नः&oldid=151291" इत्यस्माद् प्रतिप्राप्तम्