प्रभुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रभुः, पुं, (प्रभवतीति । प्र + भू + डुः ।) विष्णुः । इति शब्दरत्नावली ॥ (शिवः । यथा, महा- भारते । १३ । १७ । ३१ । “हरश्च हरिणाक्षश्च सर्व्वभूतहरः प्रभुः ॥”) पारदः । इति राजनिर्घण्टः ॥ शब्दः । इति धरणिः ॥
प्रभुः, त्रि, (प्रभवतीति । प्र + भू + “विप्रसंभ्यो ड्वसंज्ञायाम् ।” ३ । २ । १८० । इति डुः ।) अधिपतिः । तत्पर्य्यायः । स्वामी २ ईश्वरः ३ पतिः ४ ईशिता ५ अधिभूः ६ नायकः ७ नेता ८ परिवृढः ९ अधिपः १० । इत्यमरः । ३ । १ । ११ ॥ पालकः ११ । इति शब्दरत्ना- वली ॥ (यथा, भगवद्गीतायाम् । ५ । १४ । “न कर्त्तृत्वं न कर्म्माणि लोकस्य सृजति प्रभुः । न कर्म्मफलसंयोगं स्वभावस्तु प्रवर्त्तते ॥”) नित्यः । इति धरणिः ॥ शक्तः । इति नानार्थ- रत्नमाला ॥ (यथा, कुमारे । ३ । ४० । “आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥” श्रेष्ठः । यथा, मनौ । १० । ३ । “वैश्येष्यात् प्रकृतिश्रैष्ठ्यात् नियमस्य च धार- णात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥”)
