सामग्री पर जाएँ

प्रमदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रमदः, पुं, (प्र + मद् + “प्रमदसंमदौ हर्षे ।” ३ । ३ । ६८ । इति अप् ।) हर्षः । इत्यमरः । १ । ४ । २४ ॥ (यथा, कथासरित्सागरे । ६ । १६२ । “तच्छ्रुत्या मम राज्ञश्च विषादप्रमदौ द्वयोः । अभूतां मेघमालोक्य हंसचातकयोरिव ॥” प्रमाद्यत्यनेनेति । प्र + मद् + करणे अप् ।) धुस्तूरफलम् । इति शब्दचन्द्रिका ॥ (दानव- विशेषः । यथा, हरिवंशे । ३ । ८७ । “प्रमदो मयः कुपयो हयग्रीवश्च वोर्य्यवान् ॥” वशिष्ठतनयानामन्यतमः । स तु उत्तममन्वन्तरे सप्तर्षिप्रभेदः । यथा, भागवते । ८ । १ । २४ । “वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥”) प्रमाद्यतीति । प्र + मद् + कर्त्तरि अच् । यद्वा प्रकर्षेण मदोऽस्य ।) मत्ते, त्रि । इति मेदिनी । दे, ७५ ॥ (यथा, रवौ । १९ । ३७ । “प्राविपि प्रमदवर्हिणेष्वभूत् कृत्रिमाद्रिषु विहारविभ्रमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रमदः&oldid=151318" इत्यस्माद् प्रतिप्राप्तम्