प्रमाणवाधितार्थक
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रमाणवाधितार्थकः, पुं, (प्रमाणेन वाधितः अर्थो यस्य । ततः कप् ।) तर्कविशेषः । तस्य लक्ष- णम् । आत्माश्रयादिचतुष्कान्यप्रसङ्गत्वम् । स द्विविधः । व्याप्तिग्राहकः विषयपरिशोधकश्च । तत्राद्यो यथा । धूमो यदि वह्निव्यभिचारी स्यात्तदा वह्निजन्यो न स्यात् । द्बितीयस्तु पर्व्वतो यदि निर्वह्रिः स्यात्तदा निर्घूमः स्यात् । इति तर्कजागदीशी ॥
