सामग्री पर जाएँ

प्रमितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रमितः, त्रि, (प्र + मि + क्तः । यद्वा, प्र + मा + क्तः । “द्यतिस्यतिमास्थेति ।” ७ । ४ । ४० । इतीत्वम् ।) ज्ञातः । इति जटाधरः ॥ (अल्प- तमम् । इति विजयरक्षितः ॥ यथा, निदाने अर्शोरोगाधिकारे । “प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् ॥” परिमितम् । यथा, बृहत्संहितायाम् । १०४ । ३७ । “प्रमिताक्षराणि वदन् ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रमितः&oldid=151354" इत्यस्माद् प्रतिप्राप्तम्