सामग्री पर जाएँ

प्रमुखः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रमुखः, पुं, (प्रकृष्टं मुखं अग्रभागो यस्य ।) पुन्नागवृक्षः । इति शब्दचन्द्रिका ॥ समूहः । इति शब्दरत्नावली ॥

प्रमुखः, त्रि, (प्रकृष्टं मुखमाद्यं यस्य ।) प्रधा- नम् । (यथा, कुमारसम्भवे । २ । ३८ । “ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि । स्थिरप्रदीपतामेत्य भुजङ्गाः पर्य्युपासते ॥”) श्रेष्ठः । इत्यमरः । ३ । १ । ५७ ॥ (यथा, हितोपदेशे । ३ । १२४ । “बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः ॥”) प्रथमः । इति मेदिनी । खे, १० ॥ (यथा, महाभारते । २ । ६ । २ । “नारदप्रमुखास्तस्यामन्तर्व्वेद्यां महात्मनः । समासीनाः शुशुभिरे सह राजर्षिभिस्तथा ॥”) मान्यः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=प्रमुखः&oldid=151364" इत्यस्माद् प्रतिप्राप्तम्