सामग्री पर जाएँ

प्रमेहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रमेहः, पुं, (प्रकर्षेण मेहति क्षरति वीर्य्यादिरने- नेति । प्र + मिह क्षरणे + करणे घञ् ।) रोगविशेषः । तत्पर्य्यायः । मेहः २ मूत्रदोषः ३ । इति राजनिर्घण्टः ॥ बहुमूत्रता ४ । इति हेमचन्द्रः । ३ । १३४ ॥ अस्य निदानम् । “आस्यासुखं खप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि । नवान्नपानं गुडवैकृतञ्च प्रमेहहेतुः कफकृच्च सर्व्वम् ॥” * ॥ अस्य सम्प्राप्तिर्यथा, -- “मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफो वस्तिगतः प्रदूष्य । करोति मेहान् समुदीर्णमुष्णै- स्तानेव पित्तं परिदूष्य चापि ॥” * ॥ वातिकस्य तस्य लक्षणम् । “क्षीणेषु दोषेष्ववकृष्य धातून् सन्दूष्य मेहान् कुरुतेऽनिलश्च ॥” * ॥ तस्य कफजादिभेदेन साध्यादिलक्षणम् । यथा, “साध्याः कफोत्था दश पित्तजाः षट् याप्या न साध्याः पवनाच्चतुष्काः । समक्रियत्वाद्विषमक्रियत्वा- न्महात्ययत्वाच्च यथाक्रमन्ते ॥ कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः । प्रमेहपिडकानां प्राक् कार्य्यं रक्तविमोचनम् । पाटनञ्च विपक्वानां ततो व्रणविधिः स्मृतः ॥” इति भावप्रकाशः ॥ (अस्य सकारणपूर्ब्बरूपसम्प्राप्तयस्तथोपद्रवश्च । यथा, -- “त्रिदोषकोपननिमित्ता विंशतिप्रमेहविकारा- श्चापरेऽपरिसङ्ख्येयाः । तत्र यथा त्रिदोषप्रकोप- प्रमेहानभिनिर्वर्त्तयति तथानुव्याख्यास्यामः ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रमेहः [pramēhḥ], A general name for a urinary disease (such as gleet, diabetes &c.); आस्यामुखं स्वप्नसुखं दधीनि ग्राम्यौदना- नूपरसः पयांसि । नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् ॥ Bhāva. P.

"https://sa.wiktionary.org/w/index.php?title=प्रमेहः&oldid=352830" इत्यस्माद् प्रतिप्राप्तम्