प्रयाग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रयागः, पुं, (प्रकृष्टो यागो यत्र । यत्र यज्ञः प्रकर्षेण भवतीत्यर्थः ।) तीर्थभेदः । (प्रकृष्टो यागः ।) यज्ञः । (प्रकृष्टा यागाः यज्ञा यस्य यस्माद्बा ।) इन्द्रः । अश्वः । इति मेदिनी । गे, ४१ ॥ * ॥ अथ प्रयागमाहात्म्यम् । “ततो गच्छेत धर्म्मज्ञ ! प्रयागमृषिसम्मतम् । यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा । सनत्कुमारप्रमुखास्तथैव च महर्षयः ॥ तथा नागाः सुपर्णाश्च सिद्धाश्च क्रतवस्तथा । गन्धर्व्वाप्सरसश्चैव सरितः सागरास्तथा ॥ हरिश्च भगवानास्ते प्रजापतिभिरावृतः । तत्र त्रीण्यग्निकुण्डानि तयोर्मध्ये तु जाह्रवी ॥ प्रयागात् समतिक्रान्ता सर्व्वतीर्थपुरस्कृता । तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥ यमुना गङ्गया सार्द्धं सङ्गता लोकभाविनी । गङ्गायमुनयोर्म्मध्ये पृथिव्या जघनं स्मृतम् ॥ प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः । प्रयागं सप्रतिष्ठानं कम्बलाश्वतराबुभौ ॥ तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ! । तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तो महामते ! प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः । यजन्ते क्रतुभिर्द्देवास्तथा चक्रधराः सदा ॥ ततः पुण्यतमं नास्ति त्रिषु लोकेषु सूतज ! । प्रयागं सर्व्वतीर्थेभ्यः प्रवदन्त्यधिकं द्विजाः ॥ श्रवणात् तस्य तीर्थस्य नामसङ्कीर्त्तनादपि । मृत्तिकालभनाद्वापि सर्व्वपापैः प्रमुच्यते ॥ तत्राभिषेकं यः कुर्य्यात् सङ्गमे संशितव्रतः । पुण्यं स महदाप्नोति राजसूयाश्वमेधयोः ॥ एषा यजनभूमिर्हि देवानामपि सतकृता । दत्तं तत्र स्वल्पमपि महद्भवति सूतज ! ॥ न वेदवचनात्तात ! न लोकवचनादपि । मतिरुत्क्रमणं याति प्रयागमरणं प्रति ॥ यावन्न स्मरते जन्म तावत् स्वर्गे महीयते ॥ तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्म्मा नरोत्तमः । हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ॥ तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति । देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥ प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् । ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः ॥ सर्व्वकामफला वृक्षा मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥ स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे । मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्म्मणा ॥ सिद्धचारणगन्धर्व्वैः पूज्यते दिवि दैवतैः । अथ स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥ अतः शुभानि कर्म्माणि चिन्त्यमानः पुनः पुनः । गुणवान् वित्तसम्पन्नो भवतीह न संशयः ॥ कर्म्मणा मनसा वाचा सत्यधर्म्मप्रतिष्ठितः ॥ गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रयच्छति । सुवर्णमणिमुक्तां वा तथैवान्यत् प्रतिग्रहम् ॥ स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा । निष्फलं तस्य तत्तीर्थं यावत् तद्धनमश्नुते ॥ अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ॥ कपिलां पाटलाभान्तु यस्तु घेनुं प्रयच्छति । यावद्रोमाणि तस्या वै सन्ति गात्रेषु सत्तम ! । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥” इति कौर्म्मे प्रयागमाहात्म्ये ३३ अध्यायः ॥ * ॥ तत्र मुण्डनविधिर्यथा, -- “गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरौ मृते । आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥” इति स्मृतिसमुच्चयलिखितवचनं प्रयागावच्छिन्न- गङ्गायां विधायकम् । भास्करक्षेत्रं प्रयागः । अपि च । प्रयागमधिकृत्य । “केशानां यावती संख्या छिन्नानां जाह्रवीजले । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥” प्रयागे स्त्रीणामपि मुण्डनं न तु केशानां द्व्यङ्गुल- च्छेदनमात्रम् । यथा, -- “केशमूलमुपाश्रित्य सर्व्वपापानि देहिनाम् । तिष्ठन्ति तीर्थस्नानेन तस्मात्तान्यत्र वापयेत् ॥” प्रयागे मुण्डनाकरणे दोषोऽपि । “गङ्गायां भास्करक्षेत्रे मुण्डनं यो न कारयेत् । स कोटिकुलसंयुक्त आकल्पं रौरवे वसेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रयाग¦ पु॰ प्रकृष्टो यागो यागफलं यस्य यस्मात् वा। गङ्गा-यसुनयोः सङ्गमजाते

१ तीर्थभेदे

२ शतक्रतौ इन्द्रे च।

३ अश्वे अश्वमेघाङ्गस्याश्वस्य यज्ञसाधनत्वात् तथात्वम्। कर्म॰।

४ प्रकृष्टे यज्ञे अमरः। तत्र तीर्थभेदे पुं न॰ पुराणेतथा प्रयोगात्। मन्माहात्म्यञ्च मत्स्यपु॰

१०

२ अध्यायादिके

१०

७ अध्यायान्ते उक्तम् एवमन्यान्यपुराणेऽप्यु क्तम्। ततोदिग्मात्रं पुराणसमुच्चये दर्शितमत्र प्रदर्श्यते।
“एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम्। न शक्यंकथितुं राजन्! फलं वर्षशतैरपि। संक्षेपेण तु वक्ष्या-मि तस्य तीर्थस्य यत् फलम्। षष्टिर्वीरसहस्राणि तत्ररक्षन्ति जाह्नवीम्। यमुनां रक्षति सदा सविता सप्त-वाहनः। तं वटं रक्षति शिवः शूलपाणिर्महेश्वरः। स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम्। प्रयागंस्मरमाणस्य यान्ति पापानि संक्षयम्। दर्शनात्तस्यतीर्थस्य सर्वपापैः प्रमुच्यते। मृत्तिकालभनाद्वापि नरःपापात् प्रमुच्यते। पञ्च कुण्डानि राजेन्द्र! येषां मध्येतु जाह्नवी। प्रयागस्य पवेशाद्वै पापं नश्यति तत्-क्षणात्। मनसा चिन्तितान् कामान् सर्वान् प्राप्नोतिपुष्कलान्। ततो गत्वा प्रयागन्तु सर्वदेवाभिरक्षितम्। ब्रह्मचारी शुचिर्भूत्वा पितॄन् देवांश्च तर्पयेत्। तपनस्यसुता देवीं त्रिषु लोकेषु विश्रुता। समागता महा-भाग! यमुना यत्र निर्मला। तत्रोपस्पृश्य राजेन्द्र!स्वर्गलौकमुपाश्नुते। व्याधितो यदि वा हीनः क्रुद्धोवापि भवेन्नरः। गङ्गायमुनमासाद्य यस्तु प्राणान् परि-त्यजेत्। दीप्तकाञ्चनसङ्काशैर्विमानैः सूर्य्यवर्चसैः। नन्धर्वाप्सरसां मध्ये स्वर्गे तिष्ठति मानवः”।
“देशस्थो यदि वाऽरण्ये विदेशे यदि वा गृहे। प्रयागंअरमाणोऽपि यस्तु प्राणान परित्यजेत्। ब्रह्मलोक-मषाप्तोति वदन्ति मुनिपुङ्गवाः। सर्वकामफला वृक्षानहावेदिर्हिरण्मयी। स्त्रीमहस्राकले रम्णे मन्दाकि-प्यान्तदे शुभे। मोदते ऋपिभिः सार्द्धं म्वर्गे तेनेहकर्मणाः। सिद्धचारणगन्धर्वैः पूज्यते दिवि नैवतैः। तताः{??} परिभ्रष्टो जम्बुद्वीगपतिर्भवेत्। ततःपूभानि{??}णि चिन्तयानः पुनःपुनः। गुणावान् वित्त-[Page4482-b+ 38] सम्पन्नो भवतीह न संशयः। स्वर्णशृङ्गीं रूप्यखुरांचेलकण्ठीं पयस्विनीम्। प्रयागे श्रोत्रियं साधुं ग्राह-यित्वा यथाविधि। स्वर्गे च ततफलं भुङ्क्ते प्रदातापञ्चकोटिषु। पुत्रान् दारांस्तघ्ना भृत्यान् गौरेका प्रति-तारयेत्। ऐश्वर्य्यलोभमोहाद्वा गच्छेद्यानेन योनरः। निष्फलं तस्य तत्तीर्थं तस्माद्यानन्तु वर्जयेत्। तत्र दानं प्रदातव्यं यथाविभवसम्भवम्। तेन तीर्थफल-श्चैव वर्द्धते नात्र संशयः। स्वर्गे तिष्ठति राजेन्द्र! याव-दाहूतसंप्लवम्। वटमूलं समासाद्य यस्तु प्राणान्परित्यजेत्। सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति। तत्र ते द्वादशादित्यास्तपन्ते रुद्रमाश्रिताः। निदहन्तिजगत्सर्वं वटमूलं न दह्यते। नष्टचन्द्रार्कपवनं यदाचैकार्णव जगत्। स्वपते तत्र वै विष्णुर्यतमानः पुनः-पुनः। देवदानवगन्धवा ऋषयः सिद्धचारणाः। यदासेवन्ति तत्तीर्थं गङ्गायनुनसङ्गमम्। ततः पुण्यतमंनास्ति त्रिषु लोकेषु भारत!। श्रवणात्तस्य तीर्थस्यनामसङ्कीर्त्तनादपि। मृत्तिकालभनाद्वापि नरः पापात्प्रमुच्यते। तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः। नदेववचनात्तात न लोकवचनादपि। मतिरुत्क्रमणीया तेमयागमरणं प्रति। दश तीर्थसहस्राणि षष्ठिःकोट्यस्तथापराः। तेषां सान्निध्यमत्रैव माघे वै कुरुनन्दन!। यागतिर्योगयुक्तस्य सत्यस्थस्य च धीमतः। सा गतिस्त्य-जतः प्राणान् गङ्गायमुनसङ्गमे। कम्बलाश्वतरौ नागौविपुले यमुनातटे। तत्र स्नात्वा च पीत्वा च सर्वपापैःप्रमुच्यते। तत्र गत्वा च संस्थानं महादेवस्य धीमतः। नरस्तारयते पूर्वान् पुरुषानेकविंशतिम्। कृत्वाभिषेकन्तुनरो ह्यश्वमेधफलं लभेत्। स्वर्गलोकमवाप्नोति याव-दाहूतसंप्लवम्। पूर्वपार्श्वे च गङ्गायास्त्रिषु लोकेषुविश्रुतम्। कूपश्चैव तु साहस्रं प्रतिष्ठानञ्च नामतः। तत्र स्नात्वा विशुद्धात्मा अश्वमेधफलं लभेत्। उत्तरेणप्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः। हंसप्रपतनं नामतीर्थं त्रैलोक्यविश्रुतम्। अश्वमेधमवाप्नोति स्नान-मत्रेण भारत!। यावच्चन्द्रश्च सूर्य्यश्च तावत्स्वर्गेमहीयते। उर्वशीपुलिने रम्ये विपुले हंसपाण्डरे। परित्यजति यः प्राणान् शृणु तस्यापि यत् फलम्। पष्टि वर्षसहस्राणि षष्टिं वर्षशतानि च। मोदतेपितृभिः सार्द्धं स्वर्गलोके नरीत्तमः। ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः। उर्वशीसद्वशीनान्त[Page4483-a+ 38] कन्यानां दिव्यतेजसाम्। मध्ये नारीसहस्राणां वहू-नाञ्च पतिर्भवेत्। दशग्रामसहस्राणां भर्त्ता भवतिभूमिपः। काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिवुध्यते। अथ सन्ध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः। उपासीत-शुचिः सन्ध्यां ब्रह्मलोकमवाप्नुयात्। कोटितीर्थं समा-साद्य यस्तु प्राणान् परित्यजेत्। कोटिवर्षसहस्राणिस्वर्गलोके महीयते। ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा-दिवश्च्युतः। सुवर्णमणिमुक्ताढ्ये कुले जायेत रूपवान्। ततो भागीरथीं गत्वा वासुकेरुत्तरेण तु। दशाश्व-मेधिकं नाम तत्र तीर्थं परं भवेत्। कृत्वाभिषेकन्तुनरो ह्यश्वमेधं फलं लभेत्। धनाढ्यो रूपवान् दक्षोदाता भवति धार्मिकः। चतुर्वेदिषु यत् पुण्यं सत्य-वादिषु यत्फलम्। अर्हिसायाञ्च यो धर्मो गमनादेवतत् फलम्। तथैव मानसं नाम गङ्गाया दक्षिणे तटे। त्रिरात्रमुषितः स्नात्वा सर्वान् कामानवाप्नुयात्। पृथिव्याआसमुद्राया महाभानः पतिर्भवेत्। षष्टिस्तीर्थसह-स्राणि षष्टिस्तीर्थशतानि च। माघे मासि गमिव्यन्तिगङ्गायमुनसङ्गमम्। गवां शतसहस्रस्य सम्यग्दत्तस्ययत् फलम्। प्रयागे माथमासे वै त्र्यहं स्नातस्य तत्फलम्। गङ्गायमुनयोर्मध्ये योऽग्नौ स्वाङ्गं परि-त्यजेत्। अहीनाङ्गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः। यावन्ति रोमकूपाणि तस्याङ्गेषु च धीमतः। तावद्धर्ष-सहस्राणि स्वर्गलोके महीयते। जलप्रवेशंयः कुर्य्यात्सङ्गमे लोकविश्रुते। राहुमुक्तो यथा सोमो विमुक्तःसर्वपातकैः। सीमलोकमर्वाप्नोति सोमेन सह मोदते। षष्टिं वर्षसहस्राणि षष्टिं वर्षशताथि च। स्वर्गलोक-मवाप्नोति ऋषिगन्धर्वसेवितः। परिभ्रष्टश्च राजेन्द्र! स-मृद्धे जायते कुले। अधःशिरास्तु यो ज्वालामूर्द्धपादःपिबेन्नरः। शतं वर्षसहस्राणां स्वर्गलोके महीयते। परिभ्रष्टश्च राजेन्द्र! अग्निहोत्री भवेन्नरः। यस्तु ख-देहं कर्त्तित्वा शकुनिभ्यः प्रयच्छति। विहगैरुपभुक्तस्यशृणु तस्यापि यत फलम्। शतं वर्षसहस्राणि सोम-लोके महीयते। तस्मादपि परिभ्रष्टो राजा भवतिधार्मिकः। यामुने चोत्तरे कूले प्रयागस्य च दक्षिणे। ऋणमोचनकं नाम तत्तीर्थं परमं स्मृतम्। एकरात्रो-षितः स्नात्वा ऋणैः सर्वैर्विसुच्यते। अश्वमेधफलं तस्माद्ग-च्छतस्तु पदे पदे। पुरुषांस्तारयेद्राजन्! दश पूर्वान् दशा-परान्। व्यतीतान् पुरुषान् सप्त भविष्यांश्च चतुर्दश। [Page4483-b+ 38] नरस्तारयते सर्बान् यस्त् प्राणान् परित्यजेत्। अश्रद्धधानाः पुरुषा पापापहृतचेतसः। न प्राप्नुवन्ति तत्स्थानं प्रयागं देवरक्षितम्। अज्ञानेन तु यस्येह तीर्थ-यात्रादिकं भवेत्। मर्बकामसमृद्धन्तु स्वर्गलोके मही-यते। अग्नितीर्थमतिख्यातं यमुनादक्षिणे तटे। उत्त-रेण तु वक्ष्यामि आदित्यस्य महात्मनः। तीर्थं निरु-र्दकं नाम यत्र देवाः सवासवाः। उपासते सदा सन्ध्यांनित्यकालं युधिष्ठिर!। गङ्गा च यमुना चैव उभे तुल्य-फले स्मृते। केबलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते। नैमिषं पुष्करञ्चैव गोमती सिन्थुसागरम्। गया चधेनुकञ्चैव गङ्गासागरएव च। एते चान्ये च वहवोये च पुण्याः शिलोच्चयाः। दश कोटिसहस्राणि षष्टि-कोट्यस्तथा पराः। प्रयागे संस्थिता नित्यमेवमाहु-र्मनीषिणः। कुरुक्षत्रसमा गङ्गाः यत्र तत्रावगाहिता। तस्माद्दशगुणा प्रोक्ता यत्र विन्ध्येन सङ्गता। तस्माच्छत-गुणा प्रोक्ता काश्यामुत्तरवाहिनी। काश्याः शतगुणाप्रोक्ता गङ्गायमुनसङ्गमे। सहस्नगुणिता चापि भवेत्पश्चिमवाहिनी। सा राजन्! दर्शनादेव ब्रह्महत्याप-हारिणी। पश्चिमाभिमुखी गङ्गा कालिन्द्या सहसङ्गता। हन्ति{??}ल्पकृतं पापं सा माघे नृप! दुर्लभा। अमृतं कथ्यते राजन्! सा वेणी परिकीर्त्तिता। तस्यांमाघे मुहूर्त्तन्तु देवानामपि दुर्लभम्। षष्टिस्तीर्थसहस्राणिषष्टिस्तीर्थशतानि च। माघे मासि गमिष्यन्ति गङ्गायमुन-सङ्गमम्। ब्रह्मविष्णुमहादेवरुद्रादित्यमरुद्गणाः। गन्धर्वालोकपालाश्च यक्षकिन्नरगुह्यकाः। अणिमादिगुणैः सिद्धाये चान्ये तत्त्वदर्शिनः। ब्रह्माणी पार्वती लक्ष्मीः शचीमेधावती रतिः। सर्वास्ता देवपत्न्यश्च तथा नागाङ्गनानृप। घृताची मेनका रम्भा उर्वशी च तिलोत्तमा। गणाश्चाप्मरसां तद्वत् पितॄणाञ्च गणाश्च ये। स्नातुमा-घन्ति ते सर्वे माघे वेण्यां नराधिप!। कृते युगे स्वरू-पेण कलौ प्रच्छन्नरूपिणः। सर्वतीर्थानि कृष्णानि पापिनांसङ्गदोषतः। भवन्ति शुक्लवर्णानि प्रयागे माधमज्जनात्। स्वर्णभारसहस्रेण कुरुक्षेत्रे रविग्रहे। यत् फलं लभतेमाथे वेण्यां तच्च दिने दिने। यज्ञतीर्थतपोमिश्च नतत् प्राप्नाति मानवः। यत् फलं समवाप्नोति वेण्यांस्नानान्न संशयः। प्रयागे माधमासे तु यस्त्र्यहं स्नातिमानवः। पापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवो-रगः। प्रयागे माघमासे तु त्र्यहं स्नातस्य द्भवेत्। [Page4484-a+ 38] नाश्वमेधसहस्रेण तत् फलं लभते भुवि। त्र्यहस्नान-फलं माघे पुरा काञ्चनमालिने। राक्षसाय ददौ भूप!तेन मुक्तः स पातकात्। योगाभ्यासेन यत् पुण्यं संवत्सरशतेन च। गवां कोटिप्रदानस्य सम्यग्दत्तस्य यत् फलम्। प्रयागे माघमासे तु त्र्यह स्नातस्य तत् फलम्। किंगयापिण्डदानेन काश्यां वा मरणेन किम्। किं कु-रुक्षेत्रदानेन प्रयागे वपनं यदि। प्रयागे वपनं कृर्य्यात्गयायां पिण्डपातनम्। दानं दद्यात् कुरुक्षेत्रे वारा-णस्यां तनुं त्यजेत्। सितासितेषु ये स्नान्ति माघे मासियुधिष्ठिर!। न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि। स्वल्पं स्वल्पतरं पापं यद्वा यस्य नराधिष!। प्रयागं स्म-रमाणस्य सर्वमायाति संक्षयम्। दर्शनात्तस्य तीर्थस्यनामसंकीर्त्तनादपि। मृत्तिकालभनाद्वापि नरः पापात्प्रमुच्यते। पयागस्य प्रवेशात्तु पापं नश्यति तत्क्षणात्। कीर्त्तनान्मुच्यते पापाद्दृष्ट्या भद्राणि पश्यति। अवगाह्यच पीत्वा च पुनात्यासप्तमं कुलम्। गङ्गायमुनयोर्मध्येस्वातो मुच्येत किल्विषात्। मनसा चिन्तितान् कामां-स्तांस्तान् प्राप्नोति पुष्कलान्। प्रयागन्तु ततो गत्वा सर्व-देवाभिरक्षितम्। ब्रह्मचारी भवेन्मासं पितॄन् देवांश्च तर्प-येत्। ईप्सितान् लभते काभान् यत्र कुत्रापि जायते। तत्राभिवेकं यः कुर्य्यात् सङ्गमे संशितव्रतः। स प्राप्नोतिफलं तुल्यं राजसूयाश्वमेधयोः। पञ्चयोजनविस्तीर्णं प्र-यागस्य च मण्डलम्। प्रवेशाद्यस्य भूमौ तु अश्वमेधःपदे पदे। प्रयागमनुगच्छेद्वा बसते वापि यो नरः। सर्व-पापविशुद्धात्मा विष्णुलोके महीयते। मकरस्थे रवौ माघेगोविन्दाच्युत! माधव!। स्नानेनानेन मे देव! यथोक्तफलदो भव। तत्र दानं प्रदातव्यं यथाविभवविस्तरम्। तेन तीर्थफलञ्चैव वर्द्धते नात्र संशयः। स्वर्गे तिष्ठति रा-जेन्द्र! यावदाहूतसंप्लवम्। योजनानां सहस्रेषु गङ्गांयः स्मरते नरः। अपि दुष्कृतकर्माऽपि लभते परमांनतिम्। स्नातास्तु ये माकारभास्करोदये तीर्थे प्रयागेसुरसिन्धुसङ्गमे। तेषां गृहद्वारमलङ्करोति भृङ्गाबलीकुञ्जरकर्णताडिता” मत्स्यपु॰। तत्र मुण्डनविधिर्यथा
“गङ्गायां भास्करक्षेत्रे मातापि-त्रोर्गुरौ मृते। आधाने सोमपाने च वपनं सप्तस स्मृ-तम्” इति स्तृतिसमुच्चयतिलितवचनं प्रयागावच्छिन्नग-ङ्गाया विधायकम्। भास्करक्षेत्रं प्रयागः स्मापि चपुयागमधिकृत्य
“पेसानां यावती{??}{??}नां ला-[Page4484-b+ 38] ह्नवीजले। तावद्वर्षसहस्राणि स्वर्गलोके महीयते”। प्रयागे स्त्रीणामपि मुण्डन न तु केशानां द्व्यङ्गलच्छेदनमात्रं यथा
“केशमूलमुपाश्रित्य सर्वपापानि देहिनाम्। तिष्ठन्ति तीर्थस्नानेन तणात्तान्यत्र वापयेत्। प्रयागे मु-ण्डनाकरणे दोषोऽपि
“गङ्गायां मास्करक्षेत्रे मुण्डनंयो न कारयेत्। स काटिकुलसंयुक्त आतल्यं रौरवेवसेत्” इति प्रा॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रयाग¦ m. (-गः)
1. Sacrifice, oblation.
2. A celebrated place of pilgrimage, the confluence of the Ganges and Jamuna4, with the supposed sub- terraneous addition of the Saraswati4; the modern Alla4ha4ba4d. The term in composition is applied of many places of reputed sanctity, situated at the confluence of two rivers, as De4va-Praya4ga, Rudra- Praya4ga, Karn4a-Prayaga, and Nanda-Praya4ga, in the Hima4laya4 mountains, which with Praya4ga or Alla4ha4ba4d, constitute the five principal places so termed.
3. A name of INDRA.
4. A horse. E. प्र principal, यज् to worship, and घञ् aff.; actual worship, or the place where worship is peculiarly efficacious; Alla4ha4ba4d is one of the places where BRAHMA4 is supposed to have consummated ten As'wamed'has or sacrifices of the horse, in commemoration of his recovery, of the four Ve4das from SANK'HA4SURA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रयागः [prayāgḥ], 1 A sacrifice.

N. of Indra.

A horse.

N. of a celebrated place of pilgrimage at the confluence of the Gaṅgā and Yamunā near the modern Allahabad; प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः Ms.2.21; (said to be n. also in this sense). -Comp. -भयः an epithet of Indra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रयाग m. " place of sacrifice " , N. of a celebrated place of pilgrimage (now called Allahabad) at the confluence of the गङ्गाand यमुनाwith the supposed subterranean सरस्वती(also -कAgP. ; See. त्रि-वेणी; ifc. also in देव-pilgrimage , रुद्र-pilgrimage , कर्ण-ppilgrimage and नन्द-pilgrimage) Mn. MBh. etc. (See. RTL. 375 ; as N. of a country Priy. i , 3/4 ; pl. the inhabitants of -P प्रयागMBh. )

प्रयाग m. a sacrifice L.

प्रयाग m. a horse L. (See. प्र-योग)

प्रयाग m. N. of इन्द्रL.

प्रयाग m. N. of a man (also -क) Ra1jat.

प्रयाग/ प्र-याग याजSee. प्र-यज्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Prayāga : nt., m. (3. 83. 74): Name of a tīrtha.

A. Location: At the confluence of the Gaṅgā and the Yamunā (gaṅgāyamunayor vīra saṁgamam…prayāgam iti vikhyātam) 3. 85. 13-14; 3. 83. 70, 76, 80.

B. Name explained: Prayāga (pra-yāga) so called because Pitāmaha (Prajāpati) in the bygone days offered a sacrifice there (yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ/prayāgam iti vikhyātaṁ tasmād bharatasattama) 3. 85. 14.

C. Description: Holy, most holy (puṇya) 3. 85. 13 (Nī. on Bom. Ed. 3. 87. 18: puṇyaṁ dharmavṛddhihetuḥ); (puṇyatama) 3. 83. 74; purifying (pavitra) 3. 85. 13 (however, Nī. on Bom. Ed. 3. 87. 17: paviḥ vajraṁ tattulyaṁ janmamaraṇādiduḥkhaṁ tasmāt trāyata iti pavitram); best sanctifier (pāvanaṁ uttamam) 3. 85. 13 (Nī. on Bom. Ed. 3. 87. 18: pāvanaṁ pāpanāśanam); famous, famous in the worlds (vikhyāta) 3. 85. 14; (lokaviśruta) 3. 85. 13; liked by sages (ṛṣibhir juṣṭam) 3. 85. 13; pralsed by sages (ṛṣisaṁstuta) 3. 83. 65; place for sacrifices, honoured even by gods (yajanabhūmir hi devānām api satkṛtā) 3. 83. 77; place where gods offered sacrifice (devayajana) 3. 93. 5; 5. 187. 26.

D. Holiness:

(1) No place is holier than Prayāga in the three worlds; Prayāga surpasses by far all the other tīrthas (tataḥ puṇyatamaṁ nāsti triṣu lokeṣu bhārata/ prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṁ vibho) 3. 83. 74 (Nī. on Bom. Ed. 3. 85. 76: tathā ca pṛthivyā apatyabhūtāni tīrthāni tatphalabhūtāḥ svargāś ca tāni sarvāṇi prayāgād utpannānīti prayāgasya tīrtharājatvam uktam); one is freed of sins either by hearing the name of the tīrtha (śravaṇāt), or by reciting its name (nāmasaṁkīrtanād api), or by touching the earth there (mṛttikālambhanād vāpi) 3. 83. 75;

(2) If one who is strict in his vows (saṁśitavrataḥ) and bathes at the confluence (of the Gaṅgā and the Yamunā) at this tīrtha, he gets the religious merit of performing a Rājasūya and an Aśvamedha 3. 83. 76;

(3) If one who is controlled and strict in his vows (niyataḥ saṁśitavrataḥ) bathes at Prayāga in the month of Māgha he becomes sinless (nirmalaḥ) and goes to heaven;

(4) By just bathing (snāta eva) at the confluence of the Gaṅgā and the Yamunā (at Prayāga) one acquires the religious merit that is obtained by one who has studied the four Vedas and by those who speak truth (cāturvede ca yat puṇyaṁ satyavādiṣu caiva yat) 3. 83. 80;

(5) If one gives even a little there that assumes importance (tatra dattaṁ sūkṣmam api mahad bhavati bhārata) 3. 83. 77;

(6) Pulastya told Bhīṣma that if he decided to die at Prayāga he should not change his mind even at the instance of the Vedas or due to the advice of the people (na vedavacanāt tāta na lokavacanād api/matir utkramaṇīyā te prayāgamaraṇaṁ prati) 3. 83. 78; (also see the next section).

E. Importance:

(1) At Prayāga are present Brahman and other gods, the quarters together with their rulers (diśaś ca sadigīśvarāḥ), the Lokapālas, the Sādhyas, the Nairṛtas, manes, Sanatkumāra and other great sages (sanatkumārapramukhās tathaiva paramarṣayaḥ), Aṅgiras and other Brahmanical sages (aṅgiraḥpramukhāś caiva tathā brahmarṣayaḥ), the Nāgas, the Suparṇas, Siddhas, Cakracaras, rivers, oceans, the Gandharvas and the Apsarases, and god Hari followed by Prajāpati (hariś ca bhagavān āste prajāptipuraskṛtaḥ) 3. 83. 65-68 (Nī. on Bom. Ed. 3. 85. 72: cakracarāḥ sūryādayaḥ);

(2) Prayāga, Pratiṣṭhāna, Kambala, Aśvatara, and Bhogavatī together are known as the Vedī of Prajāpati; there the Vedas and sacrifices in bodily form (mūrtimantaḥ) as also the sages worship (upāsate) Prajāpati; there gods and Cakracaras offer sacrifices (yajante kratubhiḥ) 3. 83. 72-73;

(3) There are three Agnikuṇḍas at Prayāga from where the Jāhnavī, follwed by all the other tīrthas, flows 3. 83. 69;

(4) At Prayāga, the daughter of Tapana (the sun), i. e. the Yamunā, meets the Gaṅgā 3. 83. 70;

(5) The land between the Gaṅgā and the Yamunā is known as the jaghana (part below the navel) of the earth; Prayāga is known to the sages as the upastha, i. e. the end of this jaghana (gaṅgāyamunayor madhyaṁ pṛthivyā jaghanaṁ smṛtam/ prayāgaṁ jaghanasyāntam upastham ṛṣayo viduḥ//) 3. 83. 71 (Nī. on Bom. Ed. 3. 85. 75: strīrūpāyāḥ pṛthivyāḥ…jaghanaṁ nābher adhobhāgaḥ; on 3. 85. 76 where he reads jaghamasthānam: jaghanasya sthānam avasthānaṁ samāptir anta iti yāvat tad evopastham/);

(6) At Prayāga are present ten thousand and sixty crores of tīrthas 3. 83. 79; according to Aṅgiras ten thousand tīrthas and three crores of them gather at Prayāga on the new moon day of the month of Māgha (samāgacchanti māghyāṁ tu prayāge) 13. 26. 35;

(7) Prayāga finds place in the DaivataṚṣi-Vaṁśa 13. 151. 18, 2.

F. Events:

(1) Epic: (i) The Pāṇḍavas bathed there; they lived there and practised the severest austerities (ūṣur āplutya gātrāṇi tapaś cātasthur uttamam); at the confluence of the Gaṅgā and the Yamunā the sinless, highsouled (vipāpmāno mahātmānaḥ) Pāṇḍavas gave riches to Brāhmaṇas 3. 93. 5, 6; (ii) Among other holy places Ambā visited Prayāga; she bathed there and practised severe austerities 5. 187. 28;

(2) Mythological: Pitāmaha (Brahmadeva) formerly offered there a sacrifice 3. 85. 14; 1. 50. 1. [See Prasravaṇāni trīṇi ]

_______________________________
*2nd word in right half of page p389_mci (+offset) in original book.

previous page p388_mci .......... next page p391_mci

Prayāga : m. (pl.): Name of a people.

On the second day of war, Prayāga warriors were among those who stood at the neck of the Krauñcāruṇavyūha (6. 46. 39; Krauñca 6. 47. 1) of Pāṇḍavas (prayāgāś ca…grīvāyāṁ) 6. 46. 46.

_______________________________
*3rd word in right half of page p792_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=प्रयाग&oldid=502473" इत्यस्माद् प्रतिप्राप्तम्