सामग्री पर जाएँ

प्रयागः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रयागः, पुं, (प्रकृष्टो यागो यत्र । यत्र यज्ञः प्रकर्षेण भवतीत्यर्थः ।) तीर्थभेदः । (प्रकृष्टो यागः ।) यज्ञः । (प्रकृष्टा यागाः यज्ञा यस्य यस्माद्बा ।) इन्द्रः । अश्वः । इति मेदिनी । गे, ४१ ॥ * ॥ अथ प्रयागमाहात्म्यम् । “ततो गच्छेत धर्म्मज्ञ ! प्रयागमृषिसम्मतम् । यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा । सनत्कुमारप्रमुखास्तथैव च महर्षयः ॥ तथा नागाः सुपर्णाश्च सिद्धाश्च क्रतवस्तथा । गन्धर्व्वाप्सरसश्चैव सरितः सागरास्तथा ॥ हरिश्च भगवानास्ते प्रजापतिभिरावृतः । तत्र त्रीण्यग्निकुण्डानि तयोर्मध्ये तु जाह्रवी ॥ प्रयागात् समतिक्रान्ता सर्व्वतीर्थपुरस्कृता । तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥ यमुना गङ्गया सार्द्धं सङ्गता लोकभाविनी । गङ्गायमुनयोर्म्मध्ये पृथिव्या जघनं स्मृतम् ॥ प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः । प्रयागं सप्रतिष्ठानं कम्बलाश्वतराबुभौ ॥ तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ! । तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तो महामते ! प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः । यजन्ते क्रतुभिर्द्देवास्तथा चक्रधराः सदा ॥ ततः पुण्यतमं नास्ति त्रिषु लोकेषु सूतज ! । प्रयागं सर्व्वतीर्थेभ्यः प्रवदन्त्यधिकं द्विजाः ॥ श्रवणात् तस्य तीर्थस्य नामसङ्कीर्त्तनादपि । मृत्तिकालभनाद्वापि सर्व्वपापैः प्रमुच्यते ॥ तत्राभिषेकं यः कुर्य्यात् सङ्गमे संशितव्रतः । पुण्यं स महदाप्नोति राजसूयाश्वमेधयोः ॥ एषा यजनभूमिर्हि देवानामपि सतकृता । दत्तं तत्र स्वल्पमपि महद्भवति सूतज ! ॥ न वेदवचनात्तात ! न लोकवचनादपि । मतिरुत्क्रमणं याति प्रयागमरणं प्रति ॥ यावन्न स्मरते जन्म तावत् स्वर्गे महीयते ॥ तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्म्मा नरोत्तमः । हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ॥ तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति । देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥ प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् । ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः ॥ सर्व्वकामफला वृक्षा मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥ स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे । मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्म्मणा ॥ सिद्धचारणगन्धर्व्वैः पूज्यते दिवि दैवतैः । अथ स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥ अतः शुभानि कर्म्माणि चिन्त्यमानः पुनः पुनः । गुणवान् वित्तसम्पन्नो भवतीह न संशयः ॥ कर्म्मणा मनसा वाचा सत्यधर्म्मप्रतिष्ठितः ॥ गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रयच्छति । सुवर्णमणिमुक्तां वा तथैवान्यत् प्रतिग्रहम् ॥ स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा । निष्फलं तस्य तत्तीर्थं यावत् तद्धनमश्नुते ॥ अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ॥ कपिलां पाटलाभान्तु यस्तु घेनुं प्रयच्छति । यावद्रोमाणि तस्या वै सन्ति गात्रेषु सत्तम ! । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥” इति कौर्म्मे प्रयागमाहात्म्ये ३३ अध्यायः ॥ * ॥ तत्र मुण्डनविधिर्यथा, -- “गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरौ मृते । आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥” इति स्मृतिसमुच्चयलिखितवचनं प्रयागावच्छिन्न- गङ्गायां विधायकम् । भास्करक्षेत्रं प्रयागः । अपि च । प्रयागमधिकृत्य । “केशानां यावती संख्या छिन्नानां जाह्रवीजले । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥” प्रयागे स्त्रीणामपि मुण्डनं न तु केशानां द्व्यङ्गुल- च्छेदनमात्रम् । यथा, -- “केशमूलमुपाश्रित्य सर्व्वपापानि देहिनाम् । तिष्ठन्ति तीर्थस्नानेन तस्मात्तान्यत्र वापयेत् ॥” प्रयागे मुण्डनाकरणे दोषोऽपि । “गङ्गायां भास्करक्षेत्रे मुण्डनं यो न कारयेत् । स कोटिकुलसंयुक्त आकल्पं रौरवे वसेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रयागः [prayāgḥ], 1 A sacrifice.

N. of Indra.

A horse.

N. of a celebrated place of pilgrimage at the confluence of the Gaṅgā and Yamunā near the modern Allahabad; प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः Ms.2.21; (said to be n. also in this sense). -Comp. -भयः an epithet of Indra.

"https://sa.wiktionary.org/w/index.php?title=प्रयागः&oldid=353303" इत्यस्माद् प्रतिप्राप्तम्