प्रयुक्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रयुक्तम्, त्रि, (प्र + युज् + क्तः ।) प्रकर्षेण युक्तम् । यथा, -- “गुणप्रयुक्ताः परमर्म्मभेदिनः शरा इवावंशभवा भवन्ति हि । तथाविधा ये तु विशुद्धवंशजा व्रजन्ति चापा इव तेऽतिनम्रताम् ॥” इत्युद्भटः ॥ प्रकृष्टस्रमाधियुक्तम् । प्रकृष्टसंयोगविशिष्टम् । प्रकृष्टनिन्दायुक्तम् । प्रकृष्टसंयमविशिष्टम् । प्रपूर्ब्बयुगधात्वर्थदर्शनात् । हेतौ क्ली । यथा । न च समवायिनिमित्ताभावप्रयुक्तो नियमेन कार्य्याभावः किन्त्वसमवायिकारणाभावप्रयुक्तो- ऽपि । इति रक्षितः ॥
