सामग्री पर जाएँ

प्रयोक्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रयोक्ता, [ऋ] पुं, (प्रयुनक्तीति । प्र + युज् + तृच् ।) उत्तमर्णः । यथा, -- “उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् ॥” इत्यमरः । २ । ९ । ५ ॥ त्रि, प्रयोगकर्त्ता । (यथा, रघुः । ५ । ५७ । “संमोहनं नाम सखे ! ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् । गान्धर्व्वमादत्स्व यतः प्रयोक्तु- र्नचारिहिंसा विजयश्च हस्ते ॥” अनुष्ठाता । यथा, रघुः । ६ । ७६ । “पुत्त्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ॥” नियोगकर्त्ता । यथा, महाभारते । १३ । २३ । ६२ । “परदाराभिहर्त्तारः परदाराभिमर्षिणः । परदारप्रयोक्तारस्ते वै निरयगामिनः ॥” नाट्याचार्य्यः । यथा, रघुः । १९ । ३६ । “स प्रयोगनिपुणः प्रयोक्तृभिः सञ्जघर्ष सह मित्रसन्निधौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रयोक्ता&oldid=502493" इत्यस्माद् प्रतिप्राप्तम्