सामग्री पर जाएँ

प्रयोजकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रयोजकः, त्रि, (प्रयुनक्ति प्रेरयति कार्य्यादौ भृत्यादीनिति । प्र + युज् + ण्युल् ।) प्रयोग- कर्त्ता । नियोगकर्त्ता । स्वतन्त्रतत्प्रयोजकौ कर्त्ता । इति सुपद्मव्याकरणम् ॥ (यथा, राजतर- ङ्गिण्याम् । ६ । ११९ । “यान् द्रोहभीरून् सम्भाव्य संविभेजे यशस्करः । तस्य तत्तनयोच्छेदे त एवासन् प्रयोजकाः ॥” नियन्ता । यथा, याज्ञवल्क्ये । १ । ५ । ० “शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रयोजकः&oldid=151415" इत्यस्माद् प्रतिप्राप्तम्