प्रयोजनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रयोजनम्, क्ली, (प्रयुज्यते इति । प्र + युज् + ल्युट् ।) कार्य्यम् । (प्रयुज्यतेऽनेनेति । प्र + युज् + करणे ल्युट् ।) हेतुः । इति मेदिनी । ने, १९३ ॥ यथा, “सर्व्वस्यैव हि शास्त्रस्य कर्म्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् केन प्रगृह्यते ॥ सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥” इति प्राञ्चः ॥ (“प्रयोजनञ्च द्विविधं मुख्यं गौणञ्च । तत्र अन्ये च्छानधीनेच्छाविषयत्वं मुख्यप्रयोजनत्वम् । अन्येच्छाधीनेच्छाविषयत्वं गौणप्रयोजनत्वम् । तत्राद्यं सुखं तद्भोगो दुःखाभावश्च द्बितीयं तदुपकारि शयनभोजनादि । तस्य मुख्यप्रयो- जनेच्छयैव जन्याया इच्छाया विषयत्वात्तथा- त्वम् ।” इति मुक्तिवादे गदाधरः ॥ उद्देशः । यथा, “अथ प्रयोजनम् । प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भाः । यथा यद्यकालमृत्युरस्ति ततोऽह- मात्मानमायुष्यैरुपचरिष्याम्यनायुष्यैः परिहरि- ष्यामि कथं न मामकालमृत्युः प्रसहेतेति !” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रयोजनम् [prayōjanam], 1 Use, employment, application.
Use, need, necessity (with instr. of that which is needed and gen. of the user); सर्वैरपि राज्ञां प्रयोजनम् Pt.1; बाले किमनेन पृष्टेन प्रयोजनम् K.144.
End, aim, object, purpose; प्रयोजनमनुद्दिश्य न मन्दो$पि प्रवर्तते; पुत्रप्रयोजना दाराः पुत्रः पिण्डप्रयोजनः । हितप्रयोजनं मित्रं धनं सर्वप्रयोजनम् ॥ Subhās; गुणवत्तापि परप्रयोजना R.8.31.
A means of attaining; एतच्चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् Ms.7.1.
A cause, motive, occasion; दुरधिगमा हि गतिः प्रयोजनानाम् Ki.1.4.
Profit, interest.
The signification, sense (of a word); नासमवायात् प्रयोजनेन स्यात् MS.4.3.31.
