सामग्री पर जाएँ

प्ररूढः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्ररूढः, पुं, (प्ररोहत्यत्रेति । प्र + रुह + क्तः ।) जठरम् । इति मेदिनी । ढे, ८ ॥ (क्वचित् जर- ठोऽपि पाठः ॥)

प्ररूढः, त्रि, (प्र + रुह् + क्तः ।) बद्धमूलः । इति मेदिनी । ढे, ८ ॥ (यथा, भागवते । ४ । १३ । १ । “प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥”) जातः । (यथा, रघुः । १३ । ६ । “नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ॥”) प्रवृद्धः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=प्ररूढः&oldid=151421" इत्यस्माद् प्रतिप्राप्तम्