प्रलम्बः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रलम्बः, पुं, (प्रलम्बते इति । प्र + लम्ब + अच् । अतिदीर्घत्वादेव तथात्वम् ।) दैत्यभेदः । स च दनुपुत्त्रः मनुष्यवध्यः । यथा, -- “एकाक्ष ऋषभोऽरिष्टः प्रलम्बनरकौ तथा । इन्द्रवाधनकेशी च पुरः शङ्खोऽथ धेनुकः ॥ गवेष्टिको गवाक्षश्च तालकेतुश्च वीर्य्यवान् । एते मनुष्यवध्यास्तु दनोः पुत्त्रान्वयाः स्मृताः ॥” इत्यग्निपुराणम् ॥ (अयं हि बलदेवेन निहतः । यथा, भागवते । १० स्कन्धे १८ । अध्याये । “तत्रोपाहूय गोपालान् कृष्णः प्राह विहार- वित् । हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥ तत्र चक्रुः परिवृढौ गोपा रामजनार्द्दनौ । कृष्णसङ्घट्टिनः केचिदासन् रामस्य चापरे ॥ आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः । यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥” “उवाह कृष्णो भगवान् श्रीदामानं पराजितः । वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः । वहन् द्रुततरं प्रागादवरोहणतः परम् ॥” “अथागतस्मृतिरभयो रिपुं बलो विहायसार्थमिव हरन्तमात्मनः । रुषाहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा ॥ स आहतः सपदि विशीर्णमस्तको मुखाद्वमन् रुधिरमपस्मृतोऽसुरः । महारवं व्यसुरपतत् समीरयन् गिरिर्यथा मघवत आयुधाहतः ॥”) त्रपुषः । पयोधरः । लताङ्कुरः । शाखा । हार- भेदः । (भावे घञ् ।) प्रलम्बनम् । इति मेदिनी । बे, १३ ॥ (देशविशेषः । यथा, रामायणे । २ । ६८ । १२ । “न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति । निषेवमाणास्ते जग्मुर्नदीं मध्येन मालिनीम् ॥” लम्बमाने, त्रि । यथा, महाभारते । १ । १९५ । १० । “गूढोत्तरांसान् भुजगेन्द्रभोग- प्रलम्बबाहून् पुरुषप्रवीरान् ॥”)
