प्रलयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रलयः, पुं, (प्रलीयते क्षीयते जगदस्मिन्निति । प्र + ली + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।) प्रक्षयः । तत्पर्य्यायः । संवर्त्तः २ कल्पः ३ क्षयः ४ कल्पान्तः ५ । इत्यमरः । १ । ४ । २२ ॥ लयः ६ संक्षयः ७ विलयः ८ । इति शब्दरत्ना- वली ॥ प्रतिसर्गः ९ प्रतिसञ्चरः १० । स च नित्यनैमित्तिकप्राकृतात्यन्तिकभेदेन चतुर्धा । यथा, -- कूर्म्म उवाच । “नित्यं नैमित्तिकञ्चैव प्राकृतात्यन्तिकौ तथा । चतुर्धायं पुराणेऽस्मिन् प्रोच्यते प्रतिसञ्चरः ॥” * नित्यो यथा, -- “योऽयं संदृश्यते नूनं नित्यं लोके क्षयन्त्विह । नित्यं संकीर्त्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः ॥” नैमित्तिको यथा, -- “ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भवि- ष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥” प्राकृतो यथा, -- “महदाद्यं विशेषान्तं यदा संयाति संक्षयम् । प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥” आत्यन्तिको यथा, -- “ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ॥ आत्यन्तिकश्च कथितः प्रलयो लयसाधनः ॥” * ॥ नैमित्तिकप्रलयविस्तारो यथा, -- “नैमित्तिकमिदानीं वः कीर्त्तयिष्ये समासतः ॥ चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसञ्चरे । आत्मसंस्थाः प्रजाः कर्त्तुं प्रतिपेदे प्रजापतिः ॥ ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी । भूतक्षयकरी घोरा सर्व्वभूतभयङ्करी ॥ ततो यान्यल्पसाराणि शस्यानि पृथिवीतले । तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः । असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥ ततस्ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे । तेनाहारेण ते सूर्य्या दीप्ताः सप्त भवन्ति हि ॥ तस्य ते रश्मयः सप्त सूर्य्या भूत्वा चतुर्द्दिशम् । चतुर्लोकमिदं कृत्स्रं दहन्ति शिखिनो यथा ॥ व्याप्नुवन्तश्च ते विप्रास्तूर्द्धञ्चाधश्च रश्मिभिः । दीप्यन्ते भास्कराः सप्त दहन्तोऽग्निप्रतापिनः ॥ ते सूर्य्या वारिणा दीप्तो बहुसाहस्ररश्मयः । खं समावृत्य तिष्ठन्ति निर्द्दहन्तो वसुन्धराम् ॥ ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा । साद्रिनद्यर्णवद्वीपा निःस्नेहा समपद्यत ॥ दीप्ताभिः सन्तताभिश्च ज्वालाभिश्च समावृतः । अघश्चोर्द्धञ्च तिर्य्यक् च समावृत्य सहस्रशः ॥ सूर्य्याग्निना प्रसृष्टानां संहृष्टानां परस्परम् । एकत्वमुपजातानामेकज्वालो भवेत् प्रभुः ॥ सर्व्वलोकप्रणाशश्च सोऽग्निर्भूत्वात्मकुण्डली । न तस्याः कालदोषेण परिणामो नरर्षभ ! । आद्यन्तरहिता सा हि नित्यं कारणमव्ययम् ॥ शक्तिर्भगवतः सा हि तदेकपरमा च सा । इत्युक्तः प्रलयो राजन् ! विश्वस्यास्य महामते ! ॥ यथोत्पत्तिक्रमेणास्य व्युत्क्रमेण लयस्तथा ॥” इति पाद्मे स्वर्गखण्डे ३९ अध्यायः ॥ (सात्त्विकविकारान्तर्गतविकारविशेषः । तल्ल- क्षणं यथा, साहित्यदर्पणे । ३ । १६७ । “प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रलयः [pralayḥ], 1 Destruction, annihilation, dissolution; स्थानानि किं हिमवतः प्रलयं गतानि Bh.3.7,69; प्रलयं नीत्वा Si.11.66. 'causing to disappear'.
The destruction of the whole universe (at the end of a kalpa), universal destruction; Ku.2.8; अहं कृत्स्नस्य जगतः प्रभवः प्रलय- स्तथा Bg.7.6.
Any extensive destruction or devastation.
Death, dying, destruction; प्रारब्धाः प्रलयाय मांसवदहो विक्रेतुमेते वयम् Mu.5.21;1.14; यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् Bg.14.14.
Swoon, fainting, loss of consciousness, syncope; प्रलयान्तोन्मिषिते विलोचने Ku.4.2.
(In Rhet.) Loss of consciousness, considered as one of the 33 subordinate feelings; प्रलयः सुखदुःखाद्यै- र्गाढमिन्द्रियमूर्छनम् Pratāparudra.
The mystic syllableom.
Spiritual unification (लय); बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते । तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् ॥ Mb.12.24. 17.
Sleepiness. -Comp. -कालः the time of universal destruction. -घनः, -जलधरः a cloud at the dissolution of the world. -दहनः the fire at the dissolution of the world. -पयोधिः the ocean at the dissolution of the world.
