सामग्री पर जाएँ

प्रलेह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रलेहः, पुं, (प्रलिह्यते इति । प्र + लिह् + घञ् ।) व्यञ्जनविशेषः । इति पाकराजेश्वरः । दम्पोख्त कोरमा इत्यादि पारस्यभाषा ॥ (चिन्तामणौ धृतः प्रलेहप्रकारो यथा, -- “स्थूलानि मांसखण्डानि क्षालितानि च वारिणा । तप्तस्नेहे विनिःक्षिप्य दर्व्या सञ्चालयन् पचेत् ॥ तप्तं तत्र विनिःक्षिप्य लावणं जलमल्पकम् । पचेत् पटपटाशब्दं तस्मिन् मांसे प्रकुर्वति ॥ प्रक्षिपेद्दाडिमीनीरं बहुलेन पचेत् पुनः । मांसपिण्डेषु सिद्धेषु देया शुण्ठी सजीरका ॥ ततश्चोत्तार्य्य तन्मांसं पृथक् कुर्य्यात् प्रलेहतः । प्रलेहं दाससा पूतं स्थापयेदन्यभाजने ॥ हिङ्गुना घृतयुक्तेन धूपेन तञ्च धूपयेत् ॥” गौडदेशीयप्रलेहस्तु । “हिङ्ग्वार्द्रबीजपूरैलालवणैः सम्भृतेन तु । कुट्टितामिषपिष्टेन तत्र दाडिमबीजतः ॥ सोषणावेसवारश्च प्रलेहो गौडदेशजः ॥ प्रलेहो रुचिदो बल्यः कफानिलरुजापहः । संग्राही पित्तकृत् किञ्चिच्छिलाध्मानगदान् जयेत् ॥ पूर्णप्रलेहस्तु । “मांसपूरणयोगेन कोष्ठाकारं विधाय च । स्विन्नं कृत्तं धृते भृष्टं प्रलेहविधिना पचेत् ॥ पूरणस्य प्रलेहोऽयं विज्ञेयो वातनाशनः । श्लेष्मान्तकारकश्चैव मुखवैरस्यहृद्गुरुः ॥” शुक्लवर्णः प्रलेहः । “धृते वेसरधान्याकहिङ्गुभृद्दधिसंयुते । वस्त्रपूतेऽर्द्धसम्पक्वे स्विन्नं मांसं विनिःक्षिपेत् ॥” पीतवर्णस्तु । “प्रलेहः पीतवर्णोऽपि कार्य्यः शुक्लप्रलेहवत् । विशेषोऽत्र हरिद्रायाः संसर्गः कुङ्कुमस्य वा ॥” रक्तवर्णोऽपि । “तप्तस्नेहे क्षिपेद्धिङ्गुसंयुतं कासमर्द्दकम् । धान्यकं लवणाजाजीधौतं मांसञ्च तत् क्षिपेत् ॥ ततोऽर्द्धस्फुटिते मांसे दाडिमीबीजर्सयुते । सम्पक्वे चातिमृदुले तक्रं शुण्ठीञ्च निःक्षिपेत् ॥ तत उत्तार्य्य वस्त्रेण गालयेद्धूपयेदपि । रक्तवर्णप्रलेहस्य संसिद्ध्यर्थं विनिःक्षिपेत् ॥ करमर्द्दं दाडिमस्य स्थाने शेषन्तु पूर्ब्बवत् ॥” हरितवर्णस्तु । “मेथिकाकासमर्दाम्लकल्केन चलकारिते । घृते मांसं विनिःक्षिप्य पचेच्छुष्कप्रलेहवत् ॥ सिद्धे च गालयेद्वस्त्रे कृत्वा वर्णप्रयोजनम् । ताम्बूलं कष्टजङ्गारं देयं हरितहेतुना ॥ अरुचौ रुचिदः सद्यो नानावर्णप्रसाधितः । प्रलेहः कफवातघ्नः किञ्चित् पित्तकरो लघुः ॥” वटकप्रलेहोऽपि । “माषस्य पिष्टिका सूक्ष्मा वेसवारेण संयुता । बहुधा क्रियते तस्या वटिकावटकादिकम् ॥ आम्रविम्बीफलाकारं लड्डुकावटकादिकम् । शृङ्गाटकफलाकारं यथायुद्धिप्रकारजम् ॥ कृत्वा हि बहुधाधारे स्वेदितं घृतभार्ज्जितम् । सवेसवारजे तक्रे क्वथिते च मनोरमे ॥ निःक्षिप्य चालयेदीषदुत्तार्यैलादिवासिते । एवन्तु बहुधा कार्य्यो माषमुद्गप्रलेहकः ॥ प्रलेहो वातजिद्वल्यः शुक्रमांसप्रदो रसः । प्रीणनः प्राणयुक्तानां शुक्रदः क्षीणरेतसाम् ॥” मत्स्यप्रलेहस्तु । “मांसप्रलेहवत्कार्य्यः प्रलेहो मत्स्यसम्भवः । आदौ तैले परं पक्वं सर्व्वमन्यत्तु पूर्ब्बवत् ॥ वर्णस्य करणे देयं पूर्ब्बोक्तं द्रव्यकं हि यत् । उद्धूलनं सुगन्धाय दातव्यं पूर्ब्बसम्भवम् ॥” मत्स्यखण्डप्रलेहस्तु । “सम्यक् प्रक्षालितं मत्स्यं वेसवारेण वेष्टितम् । तप्ततैले क्षिपेत् खण्डं हिङ्गुसैन्धवमिश्रितम् ॥ प्रलेहविधिवत् साध्यो मत्स्यखण्डप्रलेहकः ॥”)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रलेह¦ m. (-हः) A kind of food. “कोर्मा” E. प्र + लिह्-कर्मणि-घञ् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रलेहः [pralēhḥ], A kind of broth; 'सूरणादिद्रव्ययुक्त आद्रकादिसंस्कृत- तक्रादिनिर्मितो द्रवद्रव्यविशेषः'; N.16.86 com.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रलेह/ प्र- m. a kind of broth L.

प्रलेह/ प्र-लेह लेहनSee. प्र-लिह्.

"https://sa.wiktionary.org/w/index.php?title=प्रलेह&oldid=502549" इत्यस्माद् प्रतिप्राप्तम्