सामग्री पर जाएँ

प्रवचनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवचनम्, क्ली, (प्रकर्षेण उच्यते इति । प्र + वच् + ल्युट् । वेदः । (यथा, अमरकोषे । २ । ७ । १० । “अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः । लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥” वेदाङ्गम् । यथा, मनुः । ३ । १८४ । “अग्र्याः सर्व्वेषु वेदेषु सर्व्वप्रवत्तनेषु च ॥” “प्रकर्षेणैव उच्यते वेदार्थ एभिरिति प्रवचना- न्यङ्गानि तेषु अग्र्याः षडङ्गविदः ।” इति तत्र कुल्लूकभट्टः ॥ तथा च हरिवंशे । १६७ । ६९ । “उवाच वेदांश्चतुरो मन्त्रप्रवचनार्च्चितान् ॥” * ॥ प्रकृष्टं वचनमिति कर्म्मधारयः ।) प्रकृष्टवाक्यम् । इति मेदिनी । ने, १९१ ॥ (यथा, मुण्डकोप- निषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । येनैवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवचनम् [pravacanam], 1 Speaking, declaration, announcement; प्रवचने मान्द्यम् Pt.1.19.

Teaching, expounding.

Exposition, explanation, interpretation; नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन Kaṭh.1.2.22; लब्ध्वा ज्ञानमनेकधा प्रवचनैर्मन्वादयः प्राणयन् Mv.4.25; Bhāg.7.15.1.

Eloquence.

A sacred treatise or writing; Ms. 3.184.

An expression, a term.

A system of doctrines (in the form of a treatise).

The fundamental doctrine of the Budhists. -नः One who exposes, propounds; Bhāg.1.87.11. -Comp. -पटु a. skilled in talking, eloquent.

"https://sa.wiktionary.org/w/index.php?title=प्रवचनम्&oldid=355143" इत्यस्माद् प्रतिप्राप्तम्