सामग्री पर जाएँ

प्रवणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवणः, पुं, (प्रवन्ते गच्छन्ति जना अनेनेति । प्रु गतौ + करणे ल्युट् ।) चतुष्पथः । इत्यमरः । ३ । ३ । ५६ ॥

प्रवणः, त्रि, (प्रवतेऽत्रेति । प्रु + अधिकरणे ल्युट् ।) क्रमनिम्नभूमिः । (यथा, मनुः । ३ । २०६ । “दक्षिणाप्रवणञ्चैव प्रयत्नेनोपपादयेत् ॥”) उदरम् । प्रह्वः । इति मेदिनी । ने, ५९ ॥ (यथा, मार्कण्डेये । २३ । ८९ । “धन्योऽहमतिपुण्योऽहं कोऽन्योऽस्ति सदृशो मया । यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः ॥”) आयतः । प्रगुणः । क्षणः । इति विश्वः ॥ प्लुतः । स्निग्धः । इति शब्दरत्नावली ॥ आसक्तः । इति हेमचन्द्रः । ३ । ४९ ॥ (यथा, विष्णुपुराणे । ६ । १ । ११ । “प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्व्वण्यव्यवस्थितौ । सम्यक्श्रद्धासमाचारप्रवणा मुनिसत्तम ! ॥”) क्षीणः । इति धरणिः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रवणः&oldid=151450" इत्यस्माद् प्रतिप्राप्तम्