सामग्री पर जाएँ

प्रवत्स्यत्पतिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवत्स्यत्पतिका, स्त्री, (प्रवत्स्यन् प्रवासं गमि- ष्यन् पतिर्यस्याः । कप् ।) नायिकाभेदः । अस्या लक्षणम् । यस्याः पतिरग्रिमक्षणे देशान्तरं यास्यत्येव सा । अस्याश्चेष्टा काकुवचनकातर- प्रेक्षणगमनविघ्नोपदर्शननिर्व्वेदसन्तापसम्मोह- निश्वासवास्पादयः ॥ मुग्धा प्रवत्स्यत्पतिका यथा, -- “प्राणेश्वरे किमपि जल्पति निर्गमाय क्षामोदरी वदनमानमयाञ्चकार । आली पुनर्निभृतमेत्य लतानिकुञ्ज- मुन्मतकोकिलकलध्वनिमाततान ॥” १ । मध्या प्रवत्स्यत्पतिका यथा, -- “गन्तुं प्रिये ! वदति निःश्वसितं न दीर्घ- मासीन्न वा नयनयोर्ज्जलमाविरासीत् । आयुर्लिपिं पठितुमेणदृशः परन्तु भालस्थलीं किमु करः समुपाजगाम ॥” २ ॥ प्रौढा प्रवत्स्यत्पतिका यथा, -- “नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वर- स्तेनाहं विहिताञ्जलिर्यदुपते ! पृच्छामि सत्यं वद । ताम्बूलं कुमुमं पटीरमुदकं यद्बन्धुभिर्दीयते तत् स्यादत्र परत्र वा किमु विषज्वालावली- दुःसहम् ॥” ३ ॥ परकीया प्रवत्स्यत्पतिका यथा, -- “न्यस्तं पन्नगमूर्द्ध्नि पादयुगलं भक्तिर्विमुक्ता गुरौ त्यक्ता नीतिरकारि किं न भवतो हेतोर्मया दुष्कृतम् । अङ्गानां शतयातना नयनयोः कोपक्रमो रौरवः कुम्भीपाकपराभवश्च मनसो युक्तं त्वयि । प्रस्थिते ॥” ४ ॥ सामान्यप्रवत्स्यत्पतिका यथा, -- “मुद्रां प्रदेहि बलयाय भवद्वियोग- मासाद्य यास्यति बहिः सहसा यदेतत् । इत्थं निगद्य विगलन्नयनाम्बुधारा वाराङ्गना प्रियतमं करयोर्बभार ॥” ५ ॥ इति रस्नमञ्जरी ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवत्स्यत्पतिका¦ स्त्री प्रवत्स्यन्पतिर्यस्याः। यस्याः पतिःपरदेशं गमिष्यति तादृश्यां स्त्रियां रसमञ्जरी। तत्र तल्ल-क्षणभेदादिकमुक्तं यथा
“यस्याः पतिरग्रिमक्षणे देशा-न्तरं यास्यत्येव सा प्रवत्स्यत्पतिका। अस्याश्चेष्टा काकु-वचनकातरप्रेक्षणगमनविघ्नोपदर्शननिर्वेदसन्तापसम्मोह-निश्वासबाष्पादयः। सा च सृग्धामध्याप्रोढापरकीयाधारणीभेदात् धञ्जविधा तदुदाहरणानि तत्र दृश्यानि।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवत्स्यत्पतिका¦ f. (-का) The wife of one who is about to go on a journey, regarded as one of the eight Na4yika4s, (in belles lettres.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवत्स्यत्पतिका/ प्र- f. the wife of a man who intends to make a journey L.

"https://sa.wiktionary.org/w/index.php?title=प्रवत्स्यत्पतिका&oldid=355261" इत्यस्माद् प्रतिप्राप्तम्