सामग्री पर जाएँ

प्रवरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवरः, पुं, (प्र + वृ + अप् ।) सन्ततिः । इति मेदिनी । रे, १७६ ॥ गोत्रप्रवर्त्तकमुनिव्याव- र्त्तको मुनिगणः । तथा च यमदग्निगोत्रस्य प्रवराः यमदग्न्यौर्व्वबशिष्ठाः । भरद्वाजगोत्रस्य भरद्वाजाङ्गिरसबार्हस्पत्य्याः । विश्वामित्र- गोत्रस्य विश्वामित्रमरीचिकौषिकाः । अत्रि- गोत्रस्य अत्र्यात्रेयशातातपाः । गोतमगोत्रस्य गोतमवशिष्ठबार्हस्पत्याः । वशिष्ठगोत्रस्य वशिष्ठः । केषाञ्चित् वशिष्ठात्रिसाङ्कृतयः । काश्यपगोत्रस्य काश्यपाप्सारनैध्रुवाः । अगस्त्य- गोत्रस्य अगस्तिदधीचिजैमिनयः । सौकालिन- गोत्रस्य सौकालिनाङ्गिरसबार्हस्पत्याप्सार- नैध्रुवाः । मौद्गल्यगोत्रस्य और्व्वच्यवनभार्गव- जामदग्न्याप्नुवतः । पराशरगोत्रस्य पराशर- शक्त्रिवशिष्ठाः । बृहस्पतिगोत्रस्य बृहस्पतिकपिल- पार्व्वणाः । काञ्चनगोत्रस्य अश्वत्थदेवलदेव- राजाः । विष्णुगोत्रस्य विष्णुवृद्धिकौरवाः । कौशिकगोत्रस्य कौशिकात्रिजमदग्नयः । कात्या- यनगोत्रस्य अत्रिभृगुवशिष्ठाः । आत्रेयगोत्रस्य आत्रेयशातातपसांख्याः । काण्वगोत्रस्य काण्वा- श्वत्थदेवलाः । कृष्णात्रेयगोत्रस्य कृष्णात्रेया- त्रेयावासाः । साङ्कृतिगोत्रस्य अव्याहारात्रि- साङ्कृतयः । कौण्डिल्यगोत्रस्य कौण्डिल्यस्ति- मिककौत्सः । गर्गगोत्रस्य गार्ग्यकौस्तुभ- माण्डव्याः । आङ्गिरसगोत्रस्य आङ्गिरस- वशिष्ठबार्हस्पत्याः । अनावृकाक्षभोत्रस्य गार्ग्य- गौतमवशिष्ठाः । अव्यगोत्रस्य अव्यबलिसार- स्वताः । जैमिनिगोत्रस्य जैमिन्युतथ्यसाङ्कृतयः । वृद्धिगोत्रस्य कुरुवृद्धाङ्गिरोबार्हस्पत्याः । शाण्डिल्यगोत्रस्य शाण्डिल्यासितदेवलाः । वात्स्यगोत्रसावर्णगोत्रयोः और्व्वच्यवनभार्गव- जामदग्न्याप्नुवतः । आलम्ब्यायनगोत्रस्य आल- म्ब्यायनशालङ्कायनशाकटायनाः । वैयाघ्रपद्य- गोत्रस्य साङ्कृतिः । घृतकौशिकगोत्रस्य कुशिक- कौशिकघृतकौशिकाः । केषाञ्चित् कुशिक- कौशिकबन्धुलाः । शक्त्रिगोत्रस्य शक्त्रिपराशर- वशिष्ठाः । काण्वायनगोत्रस्य काण्वायनाङ्गिरस- वार्हस्पत्यभरद्बाजाजमीढाः । वासुकिगोत्रस्य- अक्षोभ्यानन्तवासुकयः । गौतमगोत्रस्य गौत- माप्सराङ्गिरसबार्हस्पत्यनैध्रुवाः । केषाञ्चित् गौतमाङ्गिरसावासाः । शुनकगोत्रस्य शुनक- शौनकगृत्समदाः । सौपायनगोत्रस्य प्रवराः और्व्वच्यवनभार्गवजामदग्न्याप्नुवतः । इति धन- ञ्जयकृतधर्म्मप्रदीपे गोत्रप्रवरविवेकः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रवरः&oldid=151458" इत्यस्माद् प्रतिप्राप्तम्