सामग्री पर जाएँ

प्रवर्त्तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवर्त्तकः, त्रि, (प्रवर्त्तयतीति । प्र + वृत् + णिच् + ण्वुल् ।) प्रवर्त्तनकारी । प्रवृत्तिजनकः । यथा, “प्रवर्त्तकं वाक्यमुवाच चोदनां निवर्त्तकं नैवमुवाच भाष्यकृत् । ततश्च विद्मो नहि चोदनास्ति सा प्रवर्त्तिका या न भवेदिति स्थितिः ॥” इति संक्षेपशारीरकम् ॥ (यथा च देवीभागवते । १ । १४ । ४२ । “प्रथमं पठिता वेदा मया विस्तारिताश्च ते । हिंसामयास्ते पठिताः कर्म्ममार्गप्रवर्त्तकाः ॥” प्रयोजकः । यथा, भागवते । ९ । १७ । ४ । “धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्त्तकः । यज्ञभुग् वासुदेवांशः स्मृतिमात्रार्त्तिनाशनः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवर्त्तक¦ त्रि॰ प्रवर्तयति प्र + वृत--णिच्--ण्वुल्। प्रवृत्तिजनके
“बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यतावि-षयकं ज्ञानम् इष्टसाधनताविषयकं कृतिसाध्यताज्ञानंवा प्रवर्तकमिति जरन्नैयायिकाः। यथा वा स्वविशेष-णवत्ताप्रतिसन्धानजन्यं कार्य्यताज्ञानं प्रवर्तकमितिगुरवः।
“चोदनेति क्रियायाः प्रवर्तकं वचनम्” चोदनासूत्रे शवरभाष्यम्
“क्रियाया नियोगस्य ज्ञान-द्वारा प्रवर्तकं वाक्यं चोदनेत्यर्थः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवर्त्तक¦ mfn. (-कः-का-कं) Inciting, stimulating, inducing, who or what sets in action. m. (-कः)
1. The original instigator of any act- the author, the principal.
2. An arbiter, a judge. n. (-कं) The en- trance of the first person of the drama on the close of the intro- duction E. प्र before, वृत् to be, aff. णिच्-ण्वुल् |

"https://sa.wiktionary.org/w/index.php?title=प्रवर्त्तक&oldid=355673" इत्यस्माद् प्रतिप्राप्तम्