सामग्री पर जाएँ

प्रवीरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रवीरः, पुं, (प्रकृष्टो वीरः ।) सुभटः । (यथा, कथासरित्सागरे । २५ । १४५ । “इति तस्या वचः श्रुत्वा स प्रवीरोऽप्युवाच ताम् ॥” भौत्यस्य मनोः पुत्त्रभेदः । यथा, हरिवंशे । ७ । ८८ । “अभिमानी प्रवीरश्च जिष्णुः संक्रन्दनस्तथा ॥” अत्र क्वचित् प्रवीणोऽपि पाठः ॥ पुरुवंशीयस्य प्रचिन्वतः पुत्त्रः । यथा, तत्रैव । ३१ । ५ । “प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः ॥” धर्म्मनेत्रस्य उपदानवीगर्भजातः पुत्त्रभेदः । यथा, तत्रैव । ३२ । ७ -- ८ । “तंसोः सुरोधो राजर्षिर्धर्म्मनेत्रः प्रतापवान् । ब्रह्मवादी पराक्रान्तस्तस्य भार्य्योपदानवी ॥ उपदानवी सुतान् लेभे चतुरस्तान् सुयोधतः । दुष्मन्तमथ सुष्मन्तं प्रवीरमनध तथा ॥” चण्डालपुरुषविशेषः । यथा, मार्कण्डेये । ८ । ८६ । “चण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे । विख्यातो वध्यवधको मृतकम्बलहारकः ॥”) उत्तमे, त्रि । इति धरणिः ॥ (यथा, देवी- भागवते । २ । ५ । २० । “कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रवीरः&oldid=151519" इत्यस्माद् प्रतिप्राप्तम्