प्रवृत्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रवृत्तः, त्रि, (प्रवर्त्तते स्मेति । प्र + वृत् + क्तः ।) प्रवृत्तिविशिष्टः । यथा, -- “ववृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि । तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥” इति शिशुपालबधे । १ । ४० ॥ आरम्भः । यथा, -- “प्रवृत्तमन्यथा कुर्य्यात् यदि मोहात् कथञ्चन । यतस्तदन्यथा भूतं तत एव समापयेत् ॥” इति छन्दोगपरिशिष्टम् ॥ प्रकृष्टवर्त्तनविशिष्टश्च ॥ (यथा, रामायणे । ७ । ८० । १ । “अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् । पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥”)
