प्रव्रज्यावसित
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रव्रज्यावसितः, पुं, (प्रव्रज्याया अवसितो विच्युतः ।) सन्न्यासभ्रष्टः । यथा, -- “तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥” इति दायभागवचनव्याख्यायां क्रमसंग्रहः ॥ (यथा, कात्यायनवचनम् । “प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजोत्तमाः । निर्वासं कारयेद्विप्रं दासत्वं क्षत्त्रवैश्ययोः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रव्रज्यावसित¦ पु॰ प्रव्रज्यातोऽवसितः। सन्न्यासच्युते
“प्रव्र-ज्यावसिता यत्र त्रयो वर्णा द्विजोत्तमाः। निर्वासं कार-येद्विप्रं दासत्वं क्षत्रवैश्ययोः” कात्यायनवचनम्। तत्प्रायश्चित्तमुक्तम् शा॰ सू॰ भाष्यधृतस्मृतौ
“वानप्रस्थोदीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्द्धयेत्भिक्षुर्वानप्रस्थवत् सोमवृद्धिवर्जम्”। कृतप्रायश्चित्तानामपितेषामव्यवहार्य्याता यथोक्तम्
“बहिस्तूभयथापि स्पृतराचाराच्च” शा॰ सू॰। यद्यूर्ध्व-रेतसां स्वाश्रमेभ्यः प्रच्यवनं महाषातकं यदि वोपपातक-मुभयथापि शिष्टैस्ते बहिः कर्त्तव्याः
“आरूढपतितं विप्रमण्डलाच्च विनिःसृतम्। उद्बद्ध कृमिदष्टञ्च स्पृष्ट्वाचान्द्रायणं चरेत्” इति चैवमादिनिन्दातिशयस्मृतिभ्यःशिष्टाचाराच्च। न हिं यज्ञाध्ययनविवाहादीनि तैःसहाचरन्ति शिष्टाः” भाष्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रव्रज्यावसित¦ m. (-तः) An ascetic, who has broken his observance. E. प्रव्रज्या, and अवसित finished.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रव्रज्यावसित/ प्र- m. a -relreligious -mmendicant who has renounced his order Ya1jn5.