प्रव्रज्यावसितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रव्रज्यावसितः, पुं, (प्रव्रज्याया अवसितो विच्युतः ।) सन्न्यासभ्रष्टः । यथा, -- “तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥” इति दायभागवचनव्याख्यायां क्रमसंग्रहः ॥ (यथा, कात्यायनवचनम् । “प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजोत्तमाः । निर्वासं कारयेद्विप्रं दासत्वं क्षत्त्रवैश्ययोः ॥”)
