प्रशमनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रशमनम्, क्ली, (प्र + शम् + णिच् + ल्युट् ।) मार- णम् । वधः । इति हेमचन्द्रः ॥ (प्र + शम् + ल्युट् ।) शमता । प्रशान्तिः । यथा, -- “सर्व्वावाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ! । एवमेव त्वया कार्य्यमस्मद्वैरिविनाशनम् ॥” इति मार्कण्डेयपुराणम् । ९१ । ३५ ॥ (प्रतिपादनम् । दानम् । इति कुल्लूकभट्टः ॥ यथा, मनुः । ७ । ५६ । “तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥” स्थिरीकरणम् । प्रशमनेन स्थिरीकरणेन । यथा, रघुः । ४ । १४ । “लब्धप्रशमनस्वस्थमथैनं समुपस्थिता । पार्थिवश्रीर्द्बितीयेव शरत्पङ्कजलक्षणा ॥”) इति मल्लिनाथः ॥
