प्रष्ठः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रष्ठः, त्रि, (प्रतिष्ठते अग्रतो गच्छतीति । प्र + स्था + “सुपि स्थः ।” ३ । २ । ४ । इति कः । “प्रष्ठो- ऽग्रगामिनि ।” ८ । ३ । ९२ । इति षत्वम् ।) अग्रगामी । इत्यमरः । २ । ८ । ७२ ॥ (थथा, रघुः । १५ । १० । “आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः । विरराज रथप्रष्ठैर्बालखिल्यैरिवांशुमान् ॥”)
