सामग्री पर जाएँ

प्रसङ्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रसङ्गः, पुं, (प्र + सन्ज + घञ् ।) सङ्गतिविशेषः । यथा, -- “स प्रसङ्ग उपोद्धातो हेतुतावसरस्तथा । निर्व्वाहकैककार्य्यत्वे षोढासङ्गतिरिष्यते ॥” तस्य लक्षणम् । स्मृतस्योपेक्षानर्हत्वम् । तद- र्थस्तु स्मृतिविषयतापन्नत्वे सति द्वेषविषयता- नापन्नत्वम् । इत्यनुमितिग्रन्थे गदाधरभट्टा- चार्य्यः ॥ * ॥ (“प्रकरणान्तरेण समापनं प्रसङ्गः । यथा प्रकारान्तरितो योऽर्थोऽसकृदुक्तः समा- प्यते स प्रसङ्गः । यथा । महाभूतशरीरिसम- वायः पुरुषस्तस्मिन् सोऽधिष्ठानमिति वेदोत्- पत्तावभिधाय भूतविद्यायां पुनरुक्तं यतोऽभि- हितं पञ्च महाभूतशरीरिसमवायः पुरुष इति स खल्वेवं कर्म्म पुरुषश्चिकित्सायामधिकृतः ॥” इत्युत्तरतन्त्रे पञ्चषष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥) अन्योद्देशेन प्रवृत्तावन्यस्यापि सिद्धिः । यथा, -- “दृष्टा तु हरते पापं स्पृष्टा तु त्रिदिवं नयेत् । प्रसङ्गेनापि या गङ्गा मोक्षदा ह्यवगाहिता ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ (यथा च देवीभागवते । ३ । ९ । ४२ । “अस्पष्टमपि तन्नाम प्रसङ्गेनापि भाषितम् । ददाति वाञ्छितानर्थान् दुर्ल्लभानपि सर्व्वथा ॥”) प्रसक्तिः । यथा, -- “आनीता भवता यदा पतिरता साध्वी धरत्री- सुता स्फुर्ज्जद्राक्षस्रमायया न च कथं रामाङ्गमङ्गी- कृतम् । कर्त्तुं चेतसि पुण्डरीकनयनं दूर्व्वादलश्यामलं तुच्छं ब्रह्मपदं भवेत् परबधूसङ्गप्रसङ्गः कुतः ॥” इति नाटकम् ॥ * ॥ प्रस्तावः । यथा, -- “तत्रैव गङ्गा यमुना च तत्र गीदावरी तत्र सरस्वती च । सर्व्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङ्गः ॥” इति पौराणिकाः ॥ * ॥ मैथुनम् । यथा । प्रसङ्गनित्यद्रुतपृष्ठयानादिति रुग्विनिश्चयवचनटीकायां विजयरक्षितः ॥ (यथा च देवीभागवते । १ । १२ । २० । “ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । परिवृत्त्य ययुस्तूर्णं नरनारायणाश्रमम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रसङ्गः [prasaṅgḥ], 1 Attachment, devotion, addiction, devotedness; स्वरूपयोग्ये सुरतप्रसङ्गे Ku.1.19; तस्यात्यायतकोमलस्य सततं द्यूतप्रसङ्गेन किम् Mk.2.11; Śi.11.22.

Union, intercourse, association, connection; निवर्ततामस्माद्गणिका- प्रसंगात् Mk.4; Pt.1.251.

Illicit intercourse.

Occupation, intentness, being engaged or occupied with; भ्रूविक्रियायां विरतप्रसङ्गैः Ku.3.47.

A subject or topic (of discourse or controversy).

An occasion, incident; दिग्विजयप्रसंगेन K.191; यात्राप्रसंगेन Māl.1.

Conjuncture, time, opportunity; सूक्ष्मेभ्यो$पि प्रसंगेभ्यः स्त्रियो रक्ष्या विशेषतः Ms.9.5.

A contingency, event, case, occurrence of a possibility; नेश्वरो जगतः कारणमुपपद्यते, कुतः, वैषम्यनैर्घृण्यप्रसंगात् Ś. B; एवं चानवस्थाप्रसंगः ibid.; तस्याणुतर- प्रसंगात् Tarka K.; Ku.7.16.

Connected reasoning or argument.

A conclusion, an inference.

Connected language.

Inseparable application or connection (= व्याप्ति q. v.).

Mention of parents.

Introduction, insertion.

Gain.

An extended application; अन्यत्र कृतस्यान्यत्रासक्तिः प्रसङ्गः । यथा प्रदीपस्य प्रासादे कृतस्य राजमार्गे$प्यालोककरणम् ŚB. on MS.12.1.1.

(In drama) A second or subsidiary incident or plot. (प्रसंगेन, प्रसंगत, प्रसंगात् are used adverbially in the sense of:

in relation to.

in consequence of, on account of, because of, by way of.

occasionally, incidentally.

in course of; as in कथाप्रसंगेन 'in course of conversation'). -Comp. -निवारणम् prevention or obviation of similar contingencies in future. -वशात् ind. according to the time, by the force of circumstances.-विनिवृत्तिः f. nonrecurrence of a contingency; द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये Ms.8.368. -समः (in न्याय) the sophism that the proof too must be proved.

"https://sa.wiktionary.org/w/index.php?title=प्रसङ्गः&oldid=359518" इत्यस्माद् प्रतिप्राप्तम्