सामग्री पर जाएँ

प्रसज्यप्रतिषेध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रसज्यप्रतिषेधः, पुं, (प्रसज्य प्रवृत्तिं सम्पाद्य प्रति- षेधो निषेधः ।) निषेधविशेषः । तल्लक्षणं यथा, “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥” अस्योदाहरणम् । भोजराजः । “पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेद्बुधः । भवेज्जन्मान्तरे रोगी पितॄणां नोपतिष्ठते ॥” अत्र रोगीतिनिन्दाश्रवणात् प्रसज्यता । नोप- तिष्ठते इति श्रषणात् पर्य्युदासता । इति मल- मासतत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रसज्यप्रतिषेध¦ पु॰ प्रसज्य प्रसक्तिं सम्पाद्यारोप्येति यावत्प्रतिषेधः। अत्यन्ताभावे
“प्रसक्तं हि प्रतिषिध्यते” इतिन्यायेन आरोपितप्रसङ्गस्यैव निषेधः तेन वायौ रूपंनास्तीत्यादावपि वायौ रूपारोपं कृत्वैव निषेधो नञाबोध्यते इति विवेकः। कलञ्जाधिकरणशब्दे

१७

७७ पृ॰नञ्शब्दे

३१

४३ पृष्ठादौ मतभेदेन नञ पर्युदासप्रसज्य-प्रतिषेधपरता दृश्या।
“अप्राधान्यं विधेर्यत्र प्रतिषेधे प्र-धानता। प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्” शाब्दिकाः। न कलञ्जं भक्षयेदित्यत्र वलवदनिष्टासाधन-त्वविशिष्टेष्टसाधनत्वरूपस्य विध्यर्थस्याभावो तंञा बोध्यतेतेन विधेरप्राधान्यं नजर्थाभावस्य च प्राधान्यं तेन तत्रक्रियापदान्वयिनञ्प्रसज्यप्रतिषेधार्थकः। गुरुमते तुकलञ्जभक्षणाभावविषयकं कार्यमिति बोधेन अभाववि-शेष्यकबोधेऽपि प्रतिषेधस्य प्राधान्यात् तथात्वं तथा चतन्मते क्वचित् विधेरप्राधान्येन क्वचिच्च प्रतिषेधस्य प्रा-धान्येन इति व्यस्तमेव प्रसह्यप्रबिषेधप्रबोधकप्रयोजक-मिति बोध्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रसज्यप्रतिषेध/ प्र- m. the negative form of an applicable (positive) statement Pat. (also सज्यायाम्प्र्ib. ; 637799 ध-त्वn. Sa1h. )

"https://sa.wiktionary.org/w/index.php?title=प्रसज्यप्रतिषेध&oldid=502758" इत्यस्माद् प्रतिप्राप्तम्