सामग्री पर जाएँ

प्रसज्यप्रतिषेधः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रसज्यप्रतिषेधः, पुं, (प्रसज्य प्रवृत्तिं सम्पाद्य प्रति- षेधो निषेधः ।) निषेधविशेषः । तल्लक्षणं यथा, “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥” अस्योदाहरणम् । भोजराजः । “पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेद्बुधः । भवेज्जन्मान्तरे रोगी पितॄणां नोपतिष्ठते ॥” अत्र रोगीतिनिन्दाश्रवणात् प्रसज्यता । नोप- तिष्ठते इति श्रषणात् पर्य्युदासता । इति मल- मासतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=प्रसज्यप्रतिषेधः&oldid=151591" इत्यस्माद् प्रतिप्राप्तम्